SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ...... मूलं [१४६-१४७] / गाथा ||११५-११८|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१४६ -१४७] गाथा: योमुचः॥१॥” इति, एवं चन्द्रोदयाजलधेवृद्धिरनुमीयते कुमुदविकाशच, मित्रोदयाजलरुहप्रयोधी पकमदमोक्षम, तथाविधवर्षणात्सस्यनिष्पत्तिः कृषीवलमनाप्रमोदश्चेत्यादि, तदेवं कारणमेवेहानुमापर्क साध्यस्य नाकारणं, तत्र कार्यकारणभाव एव केषाश्चिद्विप्रतिपत्ति पश्यस्तमेव तावन्नियतं दर्शयन्नाह-तन्तवः पटस्य कारणं न तु पटस्तन्तूनां कारणं, पूर्वमनुपलब्धस्य तस्यैव तद्भावे उपलम्भाद, इतरेषां तु पटाभावेऽप्युपल म्भादू, अब्राह-ननु यदा कश्चिनिपुणः पटभावेन संयुक्तानपि तन्तून् क्रमेण वियोजयति तदा पटोऽपि त18न्तनां कारणं भवत्येव, नैवं, सत्त्वेनोपयोगाभावात्, यदेव हि लब्धसत्ताकं सत् स्वस्थितिभावेन कार्यमप-15 कुरुते तदेवं तस्य कारणत्वनोपदिश्यते, यथा मृत्पिण्डो घटस्य, ये तु तन्तुवियोगतोऽभावीभवता पटेन तन्तवः समुत्पद्यन्ते तेषां कथं पटः कारणं निर्दिश्यते, न हि ज्वराभावेन भवत आरोगितासुखस्य ज्वरः कारण मिति शक्यते वक्तुं, यद्येवं पटेऽप्युत्पद्यमाने तन्तवोऽभावीभवन्तीति तेऽपि तत्कारणं न स्युरिति चेत, नैवं, टूतन्तुपरिणामरूप एव हि पटो, यदि च तन्तवः सर्वथाऽभावीभवेयुस्तदा मृदावे घटस्यैव पटस्य सर्वथैवोप*लब्धिर्न स्यात् , तस्मात् पटकालेऽपि तन्तवः सन्तीति सत्त्वेनोपयोगात्ते पटस्य कारणमुच्यन्ते, पटवियोजनकाले वे कैकतन्ववस्थायां पटो नोपलभ्यते अतस्तत्र सत्त्वेनोपयोगाभावान्नासौ तेषां कारणम्, एवं वीरणकटादिष्वपि भावना कार्या, तदेवं यद्यस्य कार्यस्य कारणवेन निश्चितं तत्तस्य यथासम्भवं गमकत्वेन वक्तव्यमिति । 'से किं तं गुणेण मित्यादि, निकषः-कषपट्टगता कषितसुवर्णरेखा तेन सुवर्णमनुमीयते, यथा पञ्च ||-|| दीप अनुक्रम [३००-३०९] ~430~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy