________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
........... मूलं [१४५] / गाथा ||११४...|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१४५]
दीप
वर्गमूलानि तिष्ठन्त्यता प्रथमवर्गमूलं द्वितीयवर्गमूलेन प्रत्युत्पन्न-गुणितं तथा च सति यावन्स्योऽत्र श्रेण्यो लब्धा एतावत्प्रमाणा श्रेणीनां विष्कम्भसूचिर्भवति, एतावत्यः श्रेण्योऽत्र गृह्यन्त इत्यर्थः, इदमुक्तं भवतिअङ्गुलप्रमाणे प्रतरक्षेत्रे किलासत्कल्पनया षट्पश्चाशदधिके द्वे शते श्रेणीनां भवतस्तद्यथा २५६, अत्र प्रथमवर्गमूलं षोडश १६ द्वितीयं चत्वारः ४ चतुर्भिः षोडश गुणिता जाताश्चतुःषष्टिः, एषा चतुःषष्टिरपि सद्भावतोऽसण्येयाः श्रेण्यो मन्तव्याः, एतावत्स-ख्या श्रेणीनां विस्तरसूचिरिह ग्राद्या । 'अहव 'मित्यादि, ण| मिति वाक्यालङ्कारे, अथवा-अन्येन प्रकारेण प्रस्तुतोऽर्थ उच्यते इत्यर्थः, 'अहव 'त्ति कचित्पाठः, स चैवं व्याख्यायते-अथवा नैष पूर्वोक्तः प्रकारोऽपि तु प्रकारान्तरेण प्रस्तुतोऽर्थोऽभिधीयते इति भावः, समुदितो वाऽयंशब्दोऽथवाशब्दस्यार्थे वर्तते, तदेव प्रकारान्तरमाह-'अंगुलवीयवगमूलघणे'त्यादि, अङ्गुलप्रमाणपतरक्षेत्रवर्तिश्रेणिराशेर्यद्वितीयवर्गमूलमनन्तरं चतुष्टयरूपं दर्शितं तस्य यो घन:-चतुःषष्टिलक्षणस्तत्प्रमाणा:तत्सङ्ख्याः श्रेण्योऽत्र गृह्यन्त इति, प्ररूपणैव भिद्यते अर्थस्तु स एवेति, तदेवं कल्पनया चतुःषष्टिरूपाणां सद्भावतोऽसख्येयानां श्रेणीनां यः प्रदेशराशिरेतावत्सख्यानि नारकाणां बद्धवैक्रियाणि प्राप्यन्त इति, प्रत्येकशरीरित्वान्नारका अप्येतावन्त एच, एवं च सति पूर्व नारकाः सामान्येनैवासख्येयां उक्ताः, अत्र तु शरीरविचारप्रस्तावातदप्यसलयेयकं प्रतिनियतस्वरूपं सिद्धं भवति, एवमन्यत्रापि प्रत्येकशरीरिणः सर्वे खकीयस्वकीयबद्धशरीरसख्यातुल्या द्रष्टव्याः, मुक्तक्रियाणि मुक्तीदारिकवद्वाच्यानि, आहारकाणि बद्धा
अनुक्रम [२९९]]
-१
~ 404~