________________
आगम (४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
............. मूलं [१३०] / गाथा ||७०-७३|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३०]
गाथा: ||१-२०||
PI विनयोपचारगुह्यगुरुदारमर्यादानां व्यतिक्रमः-स्थितिलङ्घनं तदुत्पन्नो ब्रीडनको नाम रसो भवति, तत्र विनयाानां विनयोपचारव्यतिक्रमे शिष्टस्य पश्चात् ब्रीडा प्रादुरस्ति, पश्यत मया कथं पूज्यपूजाव्यतिक्रमः कृत इति?, तथा गुह्यं-रहस्यं तस्य च व्यतिक्रमेऽन्यकथनादिलक्षणे ब्रीडारसः प्रादुर्भवति, तथा गुरवः-पूज्या: पितृव्यकलाग्राहकोपाध्यायादयस्तदारथ सहाब्रह्मसेवादिलक्षणे मर्यादाव्यतिक्रमे कृते लज्जारसः प्रादुर्भव४ातीति, एवमन्योऽपि द्रष्टव्यः, किंलक्षण इत्याह-लज्जाशङ्कयोः करणं-विधानं लिङ्गं यस्य स तथा, तत्र शिरसोऽधोऽवनमनं गात्रसङ्कोचादिका लज्जा, मां न कचित् कश्चित् किश्चिद्भणिष्यतीति सर्वत्राभिशङ्कितत्वं शङ्केति । अत्रोदाहरणं-'किं लोइयगाहा, इह कचिद्देशेऽयं समाचारो, यदुत-अभिनववध्वाः खमत्रो यत् प्रथमयोन्युज्दे कृते शोणितचर्चितं तन्निवसनं अक्षतयोनिरियं न पुनरग्रेऽप्यासेवितानाचारेति संज्ञापनार्थ प्रतिगृहं भ्राम्यते, सकलजनसमक्षं च श्वधूश्वशुरादिस्तदीयगुरुजनः सतीत्वख्यापनार्थ तद्वन्दत इति, एवं| व्यवस्थिते सखीपुरतो वधूभणति-किं लोइयकरणीउत्ति करणी-क्रिया, ततश्च लौकिकक्रियाया-लौकिककर्तव्यात् सकाशात् किमन्यल्लज्जनीयतरं?, न किञ्चिदित्यर्थः, इत्यतो लज्जिताऽहं भवामि, किमिति?-यतो 'वारेजो' विवाहः तत्र गुरुजनो वन्दते 'वहुप्पोत्तंति वधूनिवसनमिति ॥ अथ बीभत्सं हेतुतो लक्षणतश्चाह
असुइकुणिमदुईसणसंजोगब्भासगंधनिष्फण्णो । निव्वेअविहिंसालक्खणो रसो
Rॐॐॐॐॐ
दीप अनुक्रम [२१३-२३४]
~ 278~