________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
........... मूलं [१२७] / गाथा ||२४|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
अनुयो
[१२७]]
मलधा
वृत्तिः उपक्रमाधि०
रीया
गाथा
॥१२॥
||१||
-%96
संयोगा लब्धाः, ततस्तस्परित्यागे औपशमिकस्योपरितनभावत्रयेण सह चारणायां लब्धास्त्रयः, तत्परिहारे क्षायिकस्योपरितनभावद्वयमीलनायां लब्धौ द्वौ, ततस्तं विमुच्य क्षायोपशमिकस्य पारिणामिकमीलने लब्ध एक इति सर्वेऽपि दश, एवं सामान्यतो द्विकसंयोगभङ्गाकेषु दर्शितेषु विशेषतस्तत्स्वरूपमजानन् विनेयः। पृच्छति-'कयरे से णामे उदइए? इत्यादि, अनोत्तरम्-'उदइएत्ति मणुस्से इत्यादि, औदयिके भावे मनुष्यत्वं-मनुष्यगतिरिति तात्पर्यम्, उपलक्षणमात्रं चेदं, तिर्यगादिगतिजातिशरीरनामादिकर्मणामप्यत्र सम्भवाद, उपशान्तास्तु कषाया औपशमिके भाव इति गम्यते, अत्राप्युदाहरणमात्रमेतत्, दर्शनमोहनीयनोकषायमोहनीययोरप्यौपशमिकत्वसम्भवादू, एतनिगमयति-'एस से णामे उदइएउवसमनिष्फपणे'त्ति, णमिति वाक्यालङ्कारे एतत्तन्नाम यदुद्दिष्टं प्रागौदयिकौपशमिकभावद्वयनिष्पन्नमिति प्रथमद्विकयोगे भङ्गकव्याख्यानम, अयं च द्विकयोगविवक्षामावत एव संपद्यते, न पुनरीहशो भतः कचिजीवे संभवति, तथा हि-यस्यौदयिकी मनुष्यगतिरीपशमिकाः कषाया भवन्ति तस्य क्षायोपशमिकानीन्द्रियाणि पारिणामिक
जीवत्वं कस्यचित् क्षायिकं सम्यक्त्वमित्येतदपि संभवति, तत्कथमस्य केवलस्य सम्भवः?, एवमेतद्व्याख्यानुद सारेण शेषा अपि व्याख्येयाः, केवलं क्षायिकपारिणामिकभावद्वयनिष्पन्नं नवमभङ्गं विहाय परेऽसम्भविनो
द्रष्टव्याः, नवमस्तु सिद्धस्य संभवति, तथाहि-क्षायिके सम्यक्त्वज्ञाने पारिणामिकं तु जीवत्वमित्येतदेव |भावद्वयं तस्यास्ति नापरः, तस्मादयमेकः सिद्धस्य संभवति, शेषास्तु नव द्विकयोगाः प्ररूपणामात्रमिति स्थि
दीप अनुक्रम [१६१-१६३]
RAM
॥१२३॥
~249~