SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१०५ -११२] गाथा |||| दीप अनुक्रम [१२६ -१३५] अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः) मूलं [१०५ - ११२] / गाथा || १५ || मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मला रीया ॥ ९५ ॥ ऽत्र वक्तुमिति, नैतदेवम्, अवस्थाभेदेन वस्तुभेदस्येह विवक्षितत्वात्, भिन्नाश्च परस्परं दूण्डकपाटाद्यवस्था, ततस्तद्भेदेन वस्तुनोऽपि भेदाद् अन्यदेव दण्डकपाटाद्यवस्थाद्रव्येभ्यः सकललोकव्याप्यचित्तमहास्कन्धद्रव्यं, तच्चैकसमयस्थितिकमिति न तस्यानुपूर्वीत्वम्, एतच्चानन्तरमेव पुनर्वक्ष्यत इत्यलं विस्तरेण । अथवा यथा क्षेत्रानुपूर्वी तथाऽत्रापि सर्वलोकव्यापिनोऽप्यचित्तमहास्कन्धस्य विवक्षामात्रमाश्रित्य एकस्मिन्नभः प्रदेशेऽप्राधान्याद्देशोन लोकवर्तित्वं वाच्यम्, एकसमयस्थितिक स्थानानुपूर्वीद्रव्यस्य द्विसमयस्थितिका वक्तव्यकस्य च तत्र प्रदेशे प्राधान्याश्रयणादिति भावः एवमन्यदपि आगमाविरोधतो वक्तव्यमिति । 'नाणादव्वाइं पहुच णियमा सव्वलोए होज 'त्ति, ज्यादिसमयस्थितिकद्रव्याणां सर्वलोकेऽपि भावादिति भावनीयम् । अनानुपूर्वीद्रव्यचिन्तायां यथा क्षेत्रानुपूर्व्यं तथा अत्राप्येकद्रव्यं लोकस्यासङ्ख्येयभाग एव वर्तते, कथमिदम् ?, उ च्यते, यत्कालत एकसमयस्थितिकं तत्क्षेत्रतोऽप्येकप्रदेशाव गाढमेवेहानानुपूर्वीत्वेन विवक्ष्यते तच लोकासयेयभाग एव भवति, 'आएसंतरेण वा सव्वपुच्छासु होज'त्ति, अस्य भावना - इहाचित्तमहास्कन्धस्य दण्डायवस्थाः परस्परं भिन्नाः, आकारादिभेदात्, द्वित्रिचतुः प्रदेशकादिस्कन्धवत्, ततश्च ता एकैकसमयवृ त्तित्वात् पृथगनानुपूर्वीद्रव्याणि तेषु च मध्ये किमपि कियत्यपि क्षेत्रे वर्तत इत्यनया विवक्षया किलेकमनानुपूर्वीद्रव्यं मतान्तरेण सङ्ख्येयभागादिकासु पञ्चस्खपि पृच्छासु लभ्यते, एतच्च सूत्रेषु प्रायो न दृश्यते, टीकाचूयस्त्वेवं व्याख्यातमुपलभ्यत इति । नानाद्रव्याणि तु सर्वस्मिन्नपि लोके भवन्ति, एकसमपस्थितिक For P&Praise Cly ~ 193~ 21 वृत्तिः उपक्र माधि० ।। ९५ ।।
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy