________________
आगम
(४५)
“अनुयोगद्वार'- चूलिकासूत्र-२ (मूलं+वृत्तिः ) .................................... मूलं [४] / गाथा ||-|| .................................. मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४]
दीप अनुक्रम [४]
BAR
शेषकालानियमेन पठ्यते तदुत्कालिकम्-आवश्यकादि । अत्र गुरुः प्रतिवचनमाह-'कालियस्सवी'त्यादि, कालिकस्याप्यसी प्रवर्त्तते, उत्कालिकस्थापि, इदं पुनः प्रस्तुतं प्रस्थापनं-प्रारम्भं प्रतीत्य उत्कालिकस्थासौ मसन्तव्यः, आवश्यकमेव ह्यत्र व्याख्यास्यते, तबोत्कालिकमेवेति हृदयम् ॥ ४॥ उत्कालिकस्येति सामान्यवचने विशेषजिज्ञासुः पृच्छति
जइ उकालिअस्स अणुओगो किं आवस्सगस्स अणुओगो? आवस्सगवतिरित्तस्स अणुओगो?, आवस्सगस्सवि अणुओगो आवस्सगवतिरित्तस्सवि अणुओगो, इमं पुण
पट्टवणं पडुच्च आवस्सगस्स अणुओगो (सू०५) । यद्युत्कालिकस्योद्देशादिस्तत्किमावश्यकस्यायं प्रवर्तते, यदाऽऽवश्यकव्यतिरिक्तस्य ?, उभयथाऽप्युत्कालिकस्य सम्भवादिति परमार्थः । तत्र श्रमणैः श्रावकैश्चोभयसन्ध्यमवश्यंकरणादावश्यक-सामायिकादिषडध्ययनकलापः, तस्मात्तु व्यतिरिक्तं-भिन्नं दशवैकालिकादि, गुरुराह-'आवस्सगस्सी 'त्यादि, दयोरप्येतयोग सामान्येनोद्देशादिः प्रवर्तते, किंस्विदं प्रस्तुतं प्रस्थापन प्रारम्भं प्रतीत्यावश्यकस्यानुयोगो नेतरस्य, सकलसामाचारीमूलवादस्यैवेह शेषपरिहारेण व्याख्यानादिति भावनीयम्, उद्देशसमुद्देशानुज्ञास्त्वावश्यके प्रवर्तमाना अप्यत्र नाधिकृताः, अनुयोगावसरत्वादू, अतस्तत्परिहारेणोक्तम्, 'अणुओगोत्ति, अयमत्र भावार्थ:
अनु. २
~16~