________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
................... मूलं [८६] / गाथा ||८...|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक
60-62
[८६]
दीप अनुक्रम
यदा यथोक्तां स्थितिमनुभूय तत एकाक्येव भवति तदा तस्य यथोक्तानन्तस्कन्धस्थित्यपेक्षया अनन्तोऽपि कालोऽन्तरे प्राप्यते, किमित्यसख्येय एवोक्तः, अत्रोच्यते, स्यादेवं, हन्त यदि संयुक्तोऽणुरेतावन्तं कालं तिष्ठेद्, एतच नास्ति, पुद्गलसंयोगस्थितेरुत्कृष्टतोऽप्यसङ्ख्येयकालत्वादित्युक्तमेव, अथ ब्रूयाद्-यस्मिन्नेव स्कन्धे संयुज्यतेऽसौ परमाणुः स चेत्स्कन्धोऽसङ्ख्येयकालाद्भिद्यते ततावतैव चरितार्थः पुगलसयोगास-1 इख्येयकालनियमो, विवक्षितपरमाणुद्रव्यस्य तु वियोगो मा भूदपीति, नैतदेवं, यस्यान्येन संपोगो जातस्तस्थासङ्ख्येयकालादू वियोगश्चिन्त्यते, यदि च परमाण्वाश्रयः स्कन्धो वियुज्यते तर्हि परमाणोः किमायातं? तस्यान्यसंयोगस्य तदवस्थत्वात् , तस्मादणुत्वेनासौ संयुक्तोऽसस्येयकालादणुत्वेनैव वियोजनीय इति । यथोक्त एवान्तरकालो न त्वनन्त इति, कथं पुनरणुत्वेनैव तस्य वियोगश्चिन्तनीय इति चेत् सूत्रप्रामाण्यात्, प्रस्तुतसूत्रे व्याख्याप्रज्ञप्त्यादिषु च परमाणोः पुनः परमाणुभवनेऽसख्येयरूपस्यैवान्तरकालस्योतत्वादित्यलं विस्तरेण । 'नाणादव्वाई पडुचे'त्यादि पूर्ववद्भावनीयम् । अवक्तव्यकद्रष्याणामन्तरचिन्तायाम् 'एग व्वं पडुचेत्यादि, अत्र भावना-इह कश्चिद् दिप्रदेशिका स्कन्धो विघटितः, खतनं परमाणुदयं जातं, समयं चैकं तथा स्थित्वा पुनस्ताभ्यामेव परमाणुभ्यां विप्रदेशिकः स्कन्धो निष्पन्न:, अथवा विघटित एवं द्विप्रदेशिकः स्कन्धोऽन्येन परमाण्वादिना संयुज्य समयादृर्व पुनस्तथैव वियुक्त इत्यवक्तव्यकस्य पुनरप्यवक्तव्यकभवने उभयधाऽपि समयोऽन्तरे लभ्यते, 'उक्कोसेणं अर्णतं कालं' इति, कथम् ?, अनोच्यते, अवक्तब्यकद्रव्यं
[९
]
~ 132~