SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [२] दीप अनुक्रम [२] “अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) HAMARA मूलं [२] / गाथा || --|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः Ja Ekemon चिन्तयति 'सागरवरगम्भीरेति' यावचतुर्विंशतिस्तवं चिन्तयति इत्यर्थः, 'उद्देससमुद्देसे सत्तावीसं अणुण्णवणयाए' इतिवचनात् ततः पारितकायोत्सर्गः संपूर्ण चतुर्विंशतिस्तवं भणित्वा परिसमाप्तोदेश क्रियत्वाद गुरोः धोभवन्दनकं ददाति, तच न श्रुतप्रत्ययं किं तर्हि १, श्रुतदातृत्वादिना गुरुः परमोपकारी, तविनयप्रतिप| त्तिनिमित्तमिति । अङ्गादिसमुद्देशेऽप्ययमेव विधिर्वक्तव्यो, नवरं पूर्वप्रवेदिते योगं कुव्वित्युक्तमत्र तु स्थिरपरिचितं कुर्विति वदति, योगोत्क्षेपकायोत्सर्गी नन्द्याकर्षणं प्रदक्षिणात्रयविधिश्व न क्रियते, शेषः ससवन्दनकादिको विधिस्तथैव । अनुज्ञाविधिस्तु योगोत्क्षेपकायोत्सर्गवः सर्वोऽप्युद्देशविधिवद्वक्तव्यो, नवरं प्रवेदिते गुरुर्वदति - 'सम्यग् धारयान्येषां च प्रवेदय' अन्यानपि पाठयेत्यर्थः, आवश्यकादिषु तण्डुलविचारणादिप्रकीर्णकेष्वपि चैष एव विधिः, नवरं स्वाध्यायप्रस्थापनं योगोत्क्षेपकायोत्सर्गश्च न क्रियते, एवं सामा| विकायध्ययनेषूदेशकेषु च चैत्यवन्दनप्रदक्षिणात्रयादिविशेषक्रियारहितः सप्तवन्दनकमदानादिकः स एव विधिरिति तावदियं चूर्णिकारलिखिता सामाचारी, साम्प्रतं पुनरन्यधापि ताः समुपलभ्यन्ते, न च तथोपलभ्य सम्मोहः कर्त्तव्यः, विचित्रत्वात्सामाचारीणामिति । इदानीमनुयोगविधिरुच्यते तन्त्रानुयोगो-वक्ष्यमाणशव्दार्थः, स यदाऽधीतसूत्रस्याचार्यपद्मस्थापनयोग्यस्य शिष्यस्यानुज्ञायते तदाऽयं विधिः-प्रशस्तेषु तिथिनक्षकरणमुहर्त्तेषु प्रशस्ते च जिनायतनादी क्षेत्रे भुवं प्रमार्ण्य एका गुरूणामेका त्वक्षाणामिति निषयाद्वयं क्रि १ उद्देशे समुदे सप्तविंशतिरनुज्ञापने. For P&Praise City ~ 12 ~ M
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy