________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-1 /गाथा ||२||
नियुक्ति: [६३]
(४३)
प्रत
सूत्रांक
||२||
तदेव वक्तव्यं, चकारखानुक्कसमुचयार्थत्वात् , संयुक्तकसंयोगः सम्भवन्त इतरेतरसंयोगशेषभेदाश्च वाच्याः, तत्र क्षेत्रस्य संयुक्तकसंयोगो यथा-जम्बूद्वीपः खप्रदेशसंयुक्तक एव लवणसमुद्रेण युज्यते, इतरेतरसंयोगः क्षेत्रप्रदेशानामेव परस्परं धर्मास्तिकायादिप्रदेश संयोगः, एवं कालभावयोरपि नेयमिति गाथार्थः ॥ ६३ ॥ इह चोक्तनीया सम्बन्धनसंयोग एव साक्षादुपयोगी, इतरेषां तु तदुपकारितया तेपामपि कथञ्चित्याज्यतया च शिष्यमतिव्युत्पा-12 दनाय चोपन्यास इति भावनीयम् । उक्तः संयोगः, तदभिधानाच व्याख्यातं प्रथमसूत्रम्॥शासम्प्रति यदुक्तं 'विनयं ५ प्रादुष्करिष्यामी ति, तत्र बिनयो धर्मः, स च धर्मिणः कथश्चिदभिन्न इति धर्मिद्वारेण तत्स्वरूपमाहआणानिदेसयरे, गुरुणमुववायकारए । इंगियागारसंपन्ने, से विणीएत्ति वुच्चइ ॥२॥ (सूत्रम्)
व्याख्या-आङिति खखभावावस्थानात्मिकया मर्यादयाऽभिव्याप्त्या वा ज्ञायन्तेऽर्था अनयेत्याज्ञा-भगवदभिलिहितागमरूपा तस्या निर्देश-उत्सर्गापवादाभ्यां प्रतिपादनमाज्ञानिर्देशः, इदमित्थं विधेयमिदमित्थं वेस्पेवमा
स्मकः तत्करणशीलस्तदनुलोमानुष्ठानो वा आज्ञानिर्देशकरः, यद्वाऽऽज्ञा-सौम्य ! इदं कुरु इदं च मा कार्षीरिति गुरुवचनमेव, तस्या निर्देश-इदमित्थमेव करोमि इति निश्चयाभिधानं तत्करः, आज्ञानिर्देशेन वा तरति भवाम्भोघिमित्याज्ञानिर्देशतर इत्यादयोऽनन्तगमपर्यायत्वाद्भगवद्वचनस्य व्याख्याभेदाः सम्भवन्तोऽपि मन्दमतीनां व्यामोहहेतुतया पालाबलादिवोधोत्पादनार्थत्वाचास्य प्रयासस्य न प्रतिसूत्र प्रदर्शयिष्यन्ते, तथा 'गुरूणां' गौरवार्हाणामा
दीप अनुक्रम
[२]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 90 ~