________________
आगम
(४३)
प्रत
सूत्रांक
||||
दीप
अनुक्रम [१]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [-] / गाथा ||१||
अध्ययनं [१],
Education intemational
| मिरासेव्यत इति आचार्यः, 'अन्यत्रापी' तिवचनात् कर्तरि कर्मणि वा कृत्यप्रत्ययः, तथा शासितुं शक्यः शिष्यः पुनाति || पितुराचारानुवर्तितयाऽऽत्मानमिति पुत्रः पाति-रक्षत्यपत्यमिति पिता स च जनयति-प्रादुर्भावयत्यपत्यमिति जननी सा च भवति बाह्यसम्बन्धनसंयोगविषयत्वाद्वाह्यसम्बन्धनसंयोग इति वृद्धाः, इदं च सर्वत्र योज्यं, दोग्धि च केवलं जननीं स्तन्यार्थमिति दुहिता, ततश्च "दुहितरि घो हिलोपश्च' इतिवचनादादेर्घत्वे हिलोपे च 'उदूत् सुपुष्पोत्सवोत्सुकदुहितृषु" इति वचनात् उत ऊत्त्वे च धूया, सा च चकारत्रयं पूरणे, भ्रियते-पोप्यते भर्त्रेति भार्या पाति-रक्षति तामिति पतिः स्त्यायते धातूनामनेकार्थत्वात् कठिनीभवत्यस्मिन् जलादीति शीतम् उपति - दहति जन्तुमिति उष्णं तमयति-खेदयति जनलोचनानीति तमः औणादिकोऽसन्, 'उज्ज' त्ति आर्षत्वादुद्योतयतीति उद्द्योतः पचादित्वादच्, यति छिनत्ति वाऽऽतपमिति छाया, आ-समन्तात्तपति संतापयति जगदिति आतपः, चशब्दो राजभृत्याद्यनुक्ताशेष सम्बन्धिसमुच्चये, लक्षणानुपपत्तौ च सर्वत्र नैरुक्तो विधिः, सुपश्च यत्राश्रवणं तत्र प्राग्यलुक्, इदमत्रै दम्पर्यम् - आचार्यः शिष्यादन्यत्वेन वाह्यः, ततो यस्तेन शिष्यस्य संयोगः- शिष्य इत्युक्तिरवश्यमाचार्यमाक्षिपति यस्यायं शिष्य इत्याक्षेप्याक्षेपकभावलक्षणः स वाद्येनेतिकृत्वा बाह्यसम्बन्धनसंयोगः, ततस्तद्विषय आचार्योऽप्युपचारात्तथोच्यते, एवं शिष्योऽप्याचार्यादम्यत्वेन वाह्यः, तेनाप्याचार्यस्य यः संयोगः- आचार्य इत्युक्ति१ कृत्यल्युटो बहुलम् इति ३-३-११३ सूत्रोक्तबहुलभावार्थभूतम्.
For Fans Only
निर्युक्ति: [५७]
~78~
wwwbryor
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः