________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१२],
मूलं [-] / गाथा ||२१-२३|| नियुक्ति: [३२७...]
(४३)
प्रत
सूत्रांक
||२१-२३||
IF देवस्य-अमरस्याभियोगो-बलात्कारो देवाभियोगस्तेन 'नियोजितेन' व्यापारितेन न त्वप्रियेतिकृत्वा 'दिन्ना है मुत्ति दत्ताऽस्मि, अहं यस्मै इति गम्यते, दत्ता च केन -राज्ञा-प्रक्रमात्कौशलिकेन, तथापि 'मणस'त्ति अपेर्गम्य
मानत्वान्मनसाऽपि-चित्तेनापि 'न ध्याता' न चिन्तिता नाभिलषितेतियावत् , प्रक्रमादेतेन मुनिना, कीदृशेन ?नरेन्द्राश्च-नृपतयो देवेन्द्राच-शक्रादयो नरेन्द्रदेवेन्द्रास्तैरभि-आभिमुख्येन वन्दितः-स्तुतो नरेन्द्रदेवेन्द्राभिवन्दितस्तेन, अनभिध्याताऽपि नृपोपरोधतः स्वीकृता खादत आह-येनास्म्यहं 'वान्ता' त्यक्ता 'ऋषिणा' मुनिना, स एष युष्माभिर्यः कदर्थयितुमारब्धः, ततो न कदर्थयितुमुचित इति भावः, पुनरिममेवाथै समर्थयितुमाह-एसो हु सो'त्ति,
एष एव स न मनागप्यत्र संशयः, उग्रं-उत्कटं दारुणं वा कर्मशत्रून् प्रति तपः-अनशनाद्यस्येति उग्रतपाः, दू अत एव महान्-प्रशस्यो विशिष्टवीर्योल्लासत आत्मा अस्येति महात्मा, जितेन्द्रियः संयतो (०९०००) ब्रह्म
चारी च प्राग्वत्, स इति क ? इत्याह-यो 'मिति मां 'तदा' तस्मिन् विवक्षितसमये 'नेच्छति' नाभिलपति दीयमाना' निसृज्यमानां, केन ?-'पित्रा' जनकेन 'स्वयं आत्मना, न तु प्रधानप्रेषणादिना, तेनापि कीदृशा ?कौशलिकेन राजा, न वितरजनसाधारणेन, तदनेन विभूतावपि निःस्पृहत्वमुक्त, पुनस्तन्माहात्म्यमाह-'महा-४ यसा' अपरिमितकीर्तिः 'एप' प्रत्यक्षो मुनिमहानुभाग:-अतिशयाचिन्त्यशक्तिः, पाठान्तरतो महानुभावो घा, तत्र चानुभावा-शापानुग्रहसामर्थ्य, 'घोरव्रतो' धृतात्यन्तदुर्द्धरमहाव्रतः 'घोरपराक्रमश्च' कषायादिजयं प्रति रौ
दीप अनुक्रम [३८०-३८२]
REGACHAR
For PaHATRAPiwanipontv
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 728~