________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [९], मूलं [-]/गाथा ||६१||
नियुक्ति: [२७९...]
(४३)
प्रत
सूत्रांक
||६||
अपहाय 'गेहं गृहं 'वइदेहीत्ति सूत्रत्वाद्विदेहा नाम जनपदः सोऽस्यास्तीति विदेही विदेहजनपदाधिपो, न त्वन्य एच कश्चिदिति भावः, यद्वा-विदेहेषु भवा चैदेही-मिथिला पुरी, सुब्ब्यत्ययात्तां च त्यक्त्वेति सम्बन्धनीयं, 'श्रामण्ये श्रमणभावे 'पर्युपस्थितः' उद्यतः, अभूदिति शेषः, यद्वा-नमिर्नमयति संयम प्रति प्रवणीकरोत्यात्मानं, कीदृशः ?शक्रेण प्रेरितः, कथं ?-साक्षात् वयं, न त्वन्यपार्थप्रहितसन्देशकादिना,श्रामण्ये पर्युपस्थितः, न तु तत्प्रेरणातोऽपि धर्म प्रति विप्लुतोऽभूदितिभाव इति सूत्रार्थः । किमेष एवैवंविधः ? उतान्येऽपीत्याहएवं करिति संबुद्धा, पंडिया पवियक्खणा । विणियति भोगेसु, जहा से णमिरायरिसि ॥६२॥ तिबेमि
व्याख्या-'एवम्' इति यथतेन नमिना निश्चलत्वं कृतं तथाऽन्येऽपि कुर्वन्ति, उपलक्षणत्यादकार्पः करिष्यन्ति च, न त्वयमेव, निदर्शनतयैवास्योपात्तत्वात् , कीदृशाः पुनरन्येऽप्येवं कुर्वन्ति ?-'सम्बुद्धाः' मिथ्यात्वापगमतोऽवगतजीवाजीवादितत्त्वाः 'पण्डिताः' सुनिश्चितशास्त्रार्थाः 'प्रविचक्षणाः' अभ्यासातिशयतः क्रियां प्रति प्रावीण्यवन्तः, तथाविधाश्च सन्तः किं विदधति ?-'विनिवर्तन्ते' विशेषेण तदासेवनादुपरमन्ति, केभ्यः ?-'भोगेसुत्ति भोगेभ्यः, किंवत् ?-यथा स 'नमिः' नमिराजर्षिः निश्चलो भूत्वा तेभ्यो निवृत्त इति, यद्वोपदेशपरमेतत् , यत एवं कुर्वन्ति सम्बुद्धाः पण्डिताः प्रविचक्षणाः, एवमिति कथमित्याह-भोगेभ्यो विनिवर्तन्ते, विशेषेण-अत्यन्तनिश्चलतालक्षणेन निवर्तन्ते भोगेभ्यो, यथास 'नमिः' नमिनामा राजर्षिः, ततो भवद्भिरप्येवंविधैरित्थमेव विधेयमिति सूत्रार्थः। इतिः' परिसमासौ | 'ब्रवीमि' इति पूर्ववत् । नयाश्च प्राग्वदिति ॥ इति श्रीशान्त्याचा० मुत्तरा०शिष्य नवममध्ययनं समाप्तमिति ॥
दीप अनुक्रम [२८९]]
For PRATEEnviruinony
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
अत्र अध्ययनं- ९ परिसमाप्तं
~638~