________________
आगम
(४३)
प्रत
सूत्रांक
||३९
-४०||
दीप
अनुक्रम
[२६७
-२६८]
Jain Educator
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [--] / गाथा ||३९-४०||
अध्ययनं [९],
विधस्य दातुर्यदि कथञ्चिचारित्रमोहनीयक्षयोपशमेन 'संयमः' आश्रवादिविरमणात्मकः स्यात् तदा स एव 'श्रेयान्' अतिशयप्रशस्यः, कथंभूतस्यापि ? - 'अददतोऽपि अयच्छतोऽपि 'किञ्चन' खल्पमपि वस्तु यद्वा 'तस्सावित्ति तस्मादप्युक्तरूपाद्दातुरवधित्वेन विवक्षितात् संयच्छति - प्राणिहिंसादिभ्यः सम्यगुपरमतीति सर्वधातूनां पचादिषु | दर्शनादिति संयमः - संयमवान्, साधुरित्यर्थः, 'श्रेयान्' प्रशस्यतरः, अथवा तस्यापि दातुः प्रक्रमात् गोदानधर्मात् 'संयमः' उक्तरूपः श्रेयान् शेषं पूर्ववत्, गोदानं चेह यागाद्युपलक्षणम्, अतिप्रभूतजना चरितमित्युपात्तम्, एवं च संयमस्य प्रशस्यतरत्वमभिदधता यागादीनां सावद्यत्वमर्थादावेदितं तथा च यज्ञप्रणेतृभिरुक्तम् - "पट् शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभिस्त्रिभिः ॥ १ ॥ इयत्पशुवधे च कथमसावद्यता नाम ?, तथा दानान्यप्यशनादिविषयाणि धम्र्मोपकरणगोचराणि च धर्माय वर्ण्यन्ते, यत आह-" अशनादीनि दानानि, धर्मोपकरणानि च । साधुभ्यः साधुयोग्यानि देयानि विधिना बुधैः ॥ १ ॥ " शेषाणि तु सुवर्णगोभूम्यादीनि प्राण्युपमर्दहेतुतया सावद्यान्येव, भोगानां तु सावद्यत्वं सुप्रसिद्धं । तथा च प्राणिप्रीतिकरत्वादित्यसिद्धो हेतुः, प्रयोगश्च यत्सावद्यं न तत् प्राणिप्रीतिकरं यथा हिंसादि, सावद्यानि च यागादीनि इति सूत्रार्थः ॥ 'एयमहं | ४१ सूत्रं प्राग्वत् । नवरमित्थं जिनधर्मस्थैर्यमवधार्य प्रव्रज्यां प्रति दृढोऽयमुत नेति परीक्षणार्थं शक्र इदमवादीत्घोरासमं चन्ता णं, अन्नं पत्थेसि आसमं । इहेव पोसहरओ, भवाहि मणुयाहिवा ! ॥ ४२ ॥
For PP Use On
निर्युक्तिः [२७९...]
~ 628~
www.anciran
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः