SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक |||| दीप अनुक्रम [१] उत्तराध्य. बृहद्वृत्तिः ॥ २९ ॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा || १ || अध्ययनं [१], Education intimatio वन्ति ५, युग्मप्रदेशं धनायतं द्वादशप्रदेशं द्वादशप्रदेशावगाढं च तत्र च षट्प्रदेशस्य प्रतरायत्तस्यैवोपरि तथैव तावन्तोऽणवः स्थाप्याः, ततो द्विगुणाः षट् द्वादश भवन्ति ६ । परिमण्डलमुक्तन्यायतो द्विभेदमेव, तत्र प्रतरपरि मण्डलं विंशतिप्रदेशं विंशतिप्रदेशावगाढं च तत्र च प्राच्यादिषु चतसृषु दिक्षु चत्वारश्चत्वारो विदिक्षु चैकैकः स्थाप्यः, मीलिताश्चैते विंशतिर्भवन्ति, स्थापना - १, 0000 घनपरिमण्डलं चत्वारिंशत्प्रदेशं चत्वारिंशत्प्रदेशावगाढं च तत्र च तस्या एव विंशतेरु- 100 100 परि तथैव विंशतिरन्या स्थाप्यते, विंशतिश्च द्विगुणा चत्वारिंशद्भवन्ति २ । इत्थं चैषां प्ररू पणमितोऽपि न्यूनदेशतायां यथोक्तसंस्थानासम्भवात्, न चैतान्यतीन्द्रियत्वेनातिशायिगम्य- 0000 त्वात् सर्वथाऽनुभवमारोपयितुं शक्यन्ते, स्थापनादिद्वारेण च कथञ्चिच्छक्यानीति तथैव ०००० दर्शितानीति गाथात्रयभावार्थः ॥ ३९-४०-४१ ॥ उक्तः परमाणूनामितरेतरसंयोगः, सम्प्रति तमेव प्रदेशानामाह धम्माइपएसाणं पंचण्ह उ जो पएससंजोगो । तिण्ह पुण अणाईओ साईओ होति दुण्हं तु ॥ ४२॥ व्याख्या -- धर्मादीनां - धर्माधर्माकाशजीवपुद्गलानां प्रदेशाः - उक्तरूपा धर्मादिप्रदेशास्तेषां 'पञ्चानाम्' इति सम्बन्धिनां धर्मादीनां पञ्चसङ्ख्यत्वेन पञ्चसङ्ख्यानां 'तुः' पुनरर्थः, संयोग इति गम्यते, स च श्रुतत्वाद्धर्मादिभिः स्कन्धैस्तथा तदन्तर्गतैर्देशैः प्रदेशान्तरैश्च सजातीयेतरैः, असौ किमित्याह-प्रदेशानां संयोगः प्रकृतत्वादितरेतरसंयोगारूयः For Fans Only निर्युक्तिः [३९-४१] ~61~ अध्ययनम् १ ॥ २९ ॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy