SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||३२|| दीप अनुक्रम [१६०] Jgn Education in “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [६], मूलं [ - ] / गाथा || ३२...|| निर्युक्ति: [२४०] त्मानं कर्मणेति ग्रन्थः, तद्वैविध्यमेवाह - वहिर्भवो बालोऽभ्यन्तरश्च 'ज्ञातव्यः' अवबोद्धव्यः, तत्र च 'अंतो अ'त्ति अन्तः शब्दोऽधिकरणप्रधानमव्ययं, चः पूरणे, ततश्चान्तरिति मध्ये यो ग्रन्थोऽभ्यन्तर इत्यर्थः, स किमित्याह-'चतु देशविधः' चतुर्दशभेदो 'दशधा' दशप्रकारः, पुनःशब्दो विशेषद्योतकः, 'बाहिरो'त्ति बायो ग्रन्थ इति गाथार्थः ॥ तत्रान्तरस्य चतुर्दश भेदानाह कोहो माणो माया लोभे पिज्जे तहेव दोसे य । मिच्छन्त वेअ अरइ रइ हास सोगे य दुग्गंछा ॥ २४९ ॥ व्याख्या- 'क्रोधः' अप्रीतिलक्षणः, 'मानः' अहमितिप्रत्यय हेतुः, 'माया' खपरव्यामोहोत्पादकं शाठ्यं, 'लोभो' द्रव्याद्यभिकाङ्क्षा, 'प्रेम' प्रियेषु प्रीतिहेतुः, 'तथैवे' त्यान्तरग्रन्थरूप एव, कोऽसौ ? - 'दोषश्च' उपशमत्यागात्मको विकारो, द्वेष इत्यर्थः । इह च यद्यपि प्रेम मायालोभरूपं द्वेषश्च क्रोधमानात्मकः तथापि तयोः पृथगुपादानं कथञ्चित् सामान्यस्य विशेषेभ्योऽन्यत्वख्यापनार्थे, 'मिथ्यात्वं' तत्त्वार्थाश्रद्धानं तच्च षट्टिः स्थानैर्भवति, तानि च नास्ति न नित्य इत्यादीनि तदुक्तम्-- "णत्थि ण णिचो ण कुणति कयं ण वेएति णत्थि पेवाणं । णत्थि य मोक्खोवाओ इम्मिच्छतस्स ठाणाई ॥ १ ॥ " 'वेदः' स्त्रीवेदादिविधा, 'अरतिः' संयमेऽप्रीतिः, 'रतिः' असंयमे प्रीतिः, आह च- "इत्थीवेयाईओ तिषिहो वेओ य होइ योद्धयो। अरती य संजमंमी होइ रती संजमे यादि ॥ १ ॥" 'हासो' विस्मयादिषु १ नास्ति न नित्यो न करोति कृतं न वेदयति नास्ति निर्वाणम् । नास्ति च मोक्षोपायः षड् मिध्यात्वस्य स्थानानि ॥ १ ॥ २ खीवेदा| दिकस्त्रिविधो वेदश्व भवति बोद्धव्यः । अरतिश्च संयमे भवति रतिः असंयमे चापि ॥ १ ॥ For PP Use On मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः ~ 520~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy