________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५],
मूलं [-]/ गाथा ||२९|| नियुक्ति: [२३५...]
(४३)
उत्तराध्य.
अक
बृद्धृत्तिः
मरणाध्य
प्रत
॥२५
सूत्रांक
||२९||
कृतमतयः, इदमुक्तं भवति य एवाबिदितधार्मिकगतयोऽनुपार्जितधर्माणश्च त एव मरणादुद्विजन्ते, यथा-कास्माभिर्मृत्वा गन्तव्यमिति, उपार्जितधर्माणस्तु धर्मफलमवगच्छन्तो न कुतोऽप्युद्विजन्ते, यथा-कास्माभिर्मृत्वा गन्तव्यं, यदुक्तम्-"चरितो निरुपक्लिष्टो धम्मो हि मयेति निर्वृतः खस्थः । मरणादपि नोद्विजते कृतकृत्योऽस्मीति धर्मात्मा ॥१॥” इति सूत्रार्थः ॥ २९॥ इत्थं सकामाकाममरणस्वरूपमभिधाय शिष्योपदेशमाह
तुलिया विसेसमायाय, दयाधम्मस्स खंतिए । विप्पसीइज मेधावी, तहाभूएण अप्पणा ॥ ३०॥ व्याख्या-'तोलयित्वा' परीक्ष्यात्मानं धृतिदाादिगुणान्वितमिति गम्यते, 'विशेष' प्रक्रमाद्भक्तपरिज्ञादिकं | मरणभेदम् 'आदाय' बुद्ध्या गृहीत्वाऽभ्युपगम्येतियावत् , दयाप्रधानो धर्मो दयाधम्मो-दशविधयतिधर्मरूपः तस्य सम्बन्धिनी या क्षान्तिस्तया, उपलक्षणत्वात् मार्दवादिभिश्च, 'विप्रसीदेत्' विशेषेण प्रसन्नो भवेत् , न तु मरणादुद्विजेतेति भावः, 'मेधावी' मर्यादावी 'तथाभूतेन' उपशान्तमोहोदयेन, यदिवा-यथैव मरणकालात्यागनाकुलचेता अभूत् मरणकालेऽपि तथैवावस्थितेन तथाभूतेनात्मना स्वयमयमपरकल्पोऽपि विप्रसीदेत्-कषायपकापगमतः खच्छतां भजेत् न तु कृतद्वादशवर्षसंलेखनतथाविधतपस्विवन्निजाङ्गुलीभङ्गादिना कपायितामवलम्बेत मेधावी, किं कृत्वा-तोलयित्वा बालमरणपण्डितमरणे, ततश्च 'विशेष' बालमरणात् पण्डितमरणस्य विशिष्टत्वलक्षणमादायराहीत्वा तथा दयाधर्मस्येति, चशब्दस्य गम्यमानत्वात्, दयाधर्मस्य च-यतिधर्मस्य विशेष-शेषधर्मातिशायित्वल
दीप अनुक्रम [१५७]
॥२५॥
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 505~