SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||20|| दीप अनुक्रम [१३८] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||१०|| निर्युक्ति: [२३५...] अध्ययनं [ ५ ], व्याख्या – 'कायस'त्ति सूत्रत्वात् कायेन शरीरेण वचसा - वाचा उपलक्षणत्वात् मनसा च 'मत्तो' दृप्तः, तत्र कायमत्तो मदान्धगजवत् यतस्ततः प्रवृत्तिमान्, यद्वाऽहोऽहं बलवान् रूपवान् वेति चिन्तयन् वचसा स्वगुणान् ख्यापयन् अहोऽहं सुखर इत्यादि वा चिन्तयन् मनसा च मदाध्मातमानसः अहोऽहमवधारणाशक्तिमानिति वा मन्वानो 'वित्ते'द्रविणे 'गृद्धो' गृद्धिमान्, चशब्दो भिन्नक्रमः, ततः स्त्रीषु च गृद्धः, तत्र वित्ते गृद्ध इति अदत्तादानपरिग्रहोपलक्षणं, तद्भावभावित्वात्तयोः, स्त्रीषु गृद्ध इत्यनेन मैथुनासेवित्वमुक्तं, स हि स्त्रियः संसारसर्वस्वभूता इति मन्यते, तथा च तद्वचः - 'सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचनाः ॥ १ ॥ ' तदभिरतिमांश्च मैथुनासेव्येव भवति, स एवंविधः किमित्याह - 'दुहतो' ति द्विधा- द्वाभ्यां रागद्वेषात्मकाभ्यां वहि|रन्तःप्रवृत्त्यात्मकाभ्यां वा प्रकाराभ्यां सूत्रत्वाद्विविधं वा इहलोकपरलोकवेदनीयतया पुण्यपापात्मकतया बा, 'मलम्' अष्टप्रकारं कर्म्म 'संचिनोति' बन्नाति, क इव किमित्याह - 'शिशुनागो' गण्डूपदोऽलस उच्यते स इव मृत्तिकां स हि सिग्धतनुतया वही रेणुभिरवगुण्ड्यते, तामेव चाश्नीते इति वहिरन्तश्च द्विधापि मलमुपचिनोति, तथाऽयमपि एतदृष्टान्ताभिधाने त्वयमभिप्रायो- यथाऽसौ वहिरन्तश्चोपचितमलः खरतर दिवाकर करनिकरसंस्पर्शतः शुष्यन्निहैव क्लिश्यति विनाशं चाप्नोति, तथाऽयमप्युपचितमलः आशुकारिकर्म्मवशत इहैव जन्मनि क्लिश्यति विनश्यति चेति सूत्रार्थः ॥ ११ ॥ अमुमेवार्थ व्यक्तीकर्तुमाह For Paren मुनि दीपरत्नसागरेण संकलित अत्र सूत्रान्ते यत् ||११|| लिखितं तत् मुद्रणदोष:, अत्र सूत्र ||१०|| एव वर्तते आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः ~ 490 ~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy