________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५],
मूलं [-] / गाथा ||१३...|| नियुक्ति: [२३०]
(४३)
प्रत सूत्रांक ||१३||
वोत्पत्त्यभाषान्न तद्भवमरणसम्भव इति गाथात्रयार्थः ॥ २२७-२२८-२२९ ॥ गतं कति म्रियन्त एकसमय इति द्वारम् , इदानी कतिकृत्वो म्रियते एकैकस्मिन् ? इति द्वारमाहसंखमसंखमणंता कमो उ इक्किकगंमि अपसत्थे । सत्तट्टग अणुबंधो पसत्थए केवलिंमि सई ॥ २३०॥
व्याख्या-'संखमसंखंति आर्षत्वात् सङ्ख्याः-समयाताः असङ्ख्या-अविद्यमानसङ्ख्याः अनन्ता-अपर्यवसिता, वारा इति प्रक्रमः, 'कमो उति क्रमः-परिपाटी, तुशब्दश्च कायस्थितेरल्पबहुत्वापेक्षयाऽयं ज्ञेय इति विशेषद्यो-18 तकः, 'एकेकगमिति एकैकस्मिन् 'अप्रशस्ते' बालमरणादौ निरूप्यमाणे, तत्र सामान्येन पञ्चेन्द्रियाविरतदेशविरती च सङ्ख्याताः, शेषाः पृथिव्युदकाग्निवायुद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः असवयाताः, वनस्पतयोऽनन्ता, एते हि कायस्थित्यपेक्षया यथाक्रमं बहुबहुतरबहुतम स्थितिमाज इतिकृत्वा । प्रशस्ते कति वारा नियत इत्साह-'सत्तट्ठगति सप्त वाऽष्ट वा सप्ताष्टास्ते परिमाणमस्येति सप्ताष्टकः, कोऽसौ ?-'अनुबन्धः' सातत्येन भवनं तन्मरणानामिति, ततोऽयमर्थ:-सप्त वा अष्ट वा वारा म्रियते, क-प्रशस्तके' सर्वविरतिसम्बन्धिनि पण्डितमरणे, इह च चारित्रस्य निरन्तरमवाप्त्यसम्भवात् तद्वत एव च प्रशस्तमरणभावादाद् व्यवधानमपि देवभवैराश्रीयते, 'केवलिनि' यथाख्यातचारित्रवति समुत्पन्नफेवले 'सई ति सकृदेकमेव मरणमिति गाथार्थः ॥ २३० ॥ उक्तं कति कृत्वो नियत एकैकस्मिन्निति द्वारं, सम्प्रति कतिभाग एकैकस्मिन्मरणे नियत इति द्वारमाह
दीप अनुक्रम [१२८]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 476~