________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५],
मूलं [-1 / गाथा ||१३...|| नियुक्ति: [२१२-२१३]
(४३)
अकाम
प्रत सूत्रांक ||१३||
उत्तराध्य. कति' कियन्ति मरणानि, अङ्गीकृत्य इति शेषः, म्रियते-प्राणांस्त्यजति, जन्तुरिति गम्यते, 'एगसमय'ति सुव्यत्ययात् बृहद्वृत्तिः ।।
एकस्मिन् समये 'कइखुत्तो'त्ति कतिकृत्वः कियतो वारान् , 'वा' समुच्चये, अपिः पूरणे, 'एकेकंति' एकैकस्मिन् वक्ष्यमालणभेदे मरणे म्रियते इति योज्यम् , 'मरणे' वक्ष्यमाणभेद एवैकैकस्मिन् 'कतिभागो'त्ति कतिसङ्ख्यो भागो म्रियते, 'सर्व
जीवानाम् ' अशेषजीवानाम् 'अणुसमयंति प्रतिसमयं निरन्तरमितियावत् , अन्तरं-व्यवधानं सहान्तरेण वर्तत इति सान्तरं, या विकल्पे, किमुक्तं भवति ?-एषु कतरनिरन्तरं सान्तरं वा ?, तथैकैकं "कियचिरं' कियत्परिमाणं 3 कालं सम्भवतीति गाथाद्वयाक्षरार्थः ॥ २१०-२११॥ भावार्थ तु खत एवं वक्ष्यति नियुक्तिकारः-तत्र च 'यथो-13 हेशं निर्देश' इति न्यायतः प्रथमं द्वारमाश्रित्याहआवीचि ओहि अंतिय वलायमरणं वसहमरणं च । अंतोसल्लं तब्भव बालं तह पंडियं मीसं ॥ २१२॥ छउमत्थमरण केवलि वेहाणस गिद्धपिट्टमरणं च । मरणं भत्तपरिण्णा इंगिणी पाओवगमणंच ॥२१३॥
व्याख्या-इह च मरणशब्दस्य प्रत्येकमभिसम्बन्धात् आवीचिमरणम् १ अवधिमरणम् २ 'अन्तिय'त्ति आर्ष-11 त्वादत्यन्तमरणं ३ 'वलायमरणं'ति तत एव बलन्मरणं ४ वार्त्तमरणं च ५ अन्तःशल्यमरणं ६ तद्भवमरणं ७ बालमरणं ८ तथा पण्डितमरणं ९ मिश्रमरणं १० छद्मस्थमरणं ११ केवलिमरणं १२ 'वेहाणसं'ति तत एव वैहायसमरणं
दीप अनुक्रम [१२८]
KAMAKA
॥२३॥
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 459~