________________
आगम
(४३)
प्रत
सूत्रांक
||||
दीप
अनुक्रम [१]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः +वृत्तिः)
मूलं [-] / गाथा || १ ||
अध्ययनं [१],
भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्या वक्तुस्त्वेकान्ततो भवति ॥ १ ॥" 'मे' मम विनयं विनतं वा प्रादुष्करिष्यत इति प्रक्रमः । उक्तः पदार्थस्तदभिधानात् सामासिकपदान्तर्गतः पदविग्रहश्च (उक्त (इति), ततश्चालनावसरः, सा च सूत्रार्थगतदूषणात्मिका, "सुत्तगयमत्थविसयं व दूसणं चालणं मयं तस्स” इति वचनात्, तत्र सूत्रचालना-संयोगस्यै विप्रमुक्तक्रियां प्रति कर्तृत्वात् संयोगादिति कथं पञ्चमी ?, अर्थचालना च 'विनयं प्रादुष्करिष्यामी'ति प्रतिज्ञातम्, उत्तरत्र च 'आणाऽणिद्देसकरे' इत्यादिना 'खड्याहिं चवेडाहिं' इत्यादिना च विपर्ययप्रतिपादनमपि दृश्यते इति कथं न प्रतिज्ञाक्षितिः १, प्रत्यवस्थानं - शब्दार्थन्यायतः परोपन्यस्तदोषपरिहाररूपं, यत आह- “सद्दत्यन्नायाओ परिहारो पचवत्थाणं" तत्र च यद्यपि संयोगेन विमुच्यमानो भिक्षुः कर्म तथापि कर्तृत्वेनात्र विवक्ष्यते, ततश्च तस्यें तं विप्रमुञ्चतो विश्लेषोऽस्तीति विश्लेषक्रियायां संयोगस्य ध्रुवत्वेनापादानत्वाश्याय्यैव पञ्चमी, अत एव विप्रमुक्त इत्यत्र कर्मकर्तुः कर्मवद्भावात् कर्मणि कोऽपि सिद्धो भवति इति न सूत्रदोषो, नाप्यर्थदोषः, यतो यद् यलक्षणं तत्तद्विपर्ययाभिधान एव तलक्षणमक्लेशेन ज्ञातुं शक्यमिति अत्र विनयाभिधानप्रतिज्ञानेऽप्यविनयाभिधानं, तथा च शय्यम्भवप्रणीताचारकथायामपि "वयछक कायछक' मित्यादिनाऽऽचार
Education intemational
१ सूत्रगतमर्थविषयं वा दूषणं चालनं मतं तस्य । २ संबन्धनसंयोगरूपं गुणमपेक्ष्येयं शङ्का, तस्य गुणत्वेन नाशात् स जहाति भिक्षुमिति निर्धारणात् । ३ शब्दार्थन्यायतः परिहारः प्रत्यवस्थानम् । ४ भिक्षोः । ५ गुणं संबन्धनसंयोगरूपं । ६ मातापित्रादेः संयोगिनः ।
निर्युक्ति: [२९]
Forest Use Only
~42~
www.ncbrary.o
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः