________________
आगम
(४३)
प्रत
सूत्रांक
||२||
दीप
अनुक्रम [११७]
उत्तराध्य.
बृहद्वृत्ति:
॥ २०६ ॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययनं [४],
मूलं [-] / गाथा ||२||
निर्युक्तिः [२०५]
प्रकर्षेण तन्मध्यादल्पस्याप्यग्रहणात्मकेन हित्वा -- त्यक्त्वा 'तानि ति धनैकरसिकान् 'पश्य' अवलोकय, विनेयमेवाह, 'पर्यट्टिएत्ति आर्यत्वात् स्वत एवाशुभानुभावतः प्रवृत्तान् प्रवर्त्तितान्या, प्रक्रमात्पापकर्मोपार्जितधनेनैव, मृत्युमुखमिति गम्यते, 'नरान्' पुरुषान्, पुनरुपादानमादरख्यापकमेकान्तक्षणिकपक्षनिरासार्थं वा, एकान्तक्षणिकपक्षे हि न येरेव धनमुपार्जितं तेषामेव प्रवर्त्तनं, तथा च बन्धमोक्षाभावश्चेति भावः, एतच पश्य वैरं कर्म्म 'बेरे' बजे य कम्मे य' इति वचनात् तेन अनुबद्धाः सततमनुगताः 'नरक' रत्नप्रभादिकं नारकनिवासम् 'उपयान्ति' तद्भवभावितया सामीप्येन गच्छन्ति, त एव मृत्युमुखप्रवृत्ता इति प्रक्रमः, यदि वा पाशा इव पाशाः - ख्यादयस्तेषु प्रवृत्तास्तैर्वा प्रवर्त्तिताः पाशप्रवृत्ताः पाशप्रवर्त्तिता वा नरकमुपयान्तीति सम्बन्धः, ते हि द्रव्यमुपाये ख्यादिष्वभिरमन्ते, तदभिरत्या च नरकगतिभाज एव भवन्तीति भावः, शेषं प्राग्वत् । तदनेन सूत्रेण धनमिहैव मृत्युहेतुतया परत्र च नरकप्रापकत्वेन तत्त्वतः पुरुषार्थ एव न भवतीति तत्यागतो धम्मै प्रति मा प्रमादीरित्युक्तं भवति, नरकप्राप्तिलक्षणश्चापायो न प्रत्यक्षेणावगम्येते (म्यत इती) हैव मृत्युलक्षणापायदर्शनमुदाहरणं, तत्र च वृद्धसम्प्रदायः - ऐगंमि नयरे एगो चोरो, सो रर्त्ति विभवसंपण्णेसु घरेसु खत्तं खणिउं सुबहुं दचिणजायं घेतुं अप्पणो घरेगदेसे कूबं सयमेव खणित्ता
१ वैरं वज्रे च कर्मणि च । २ एकस्मिन्नगरे एकधारः, स रात्रौ विभवसंपन्नेषु गृहेषु क्षत्रं खनित्वा सुबहु द्रव्यजातं गृहीत्वाऽऽत्मनो गृहैकदेशे कूपं स्वयमेव खनित्वा
Education intemational
For Fans Only
असंस्कृता.
~ 412~
४
॥२०३॥
www.brary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः