SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक |||| दीप अनुक्रम [१] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः +वृत्तिः) मूलं [ - ] / गाथा || || अध्ययनं [१] Education intimational यैव भावनीयं पदार्थस्त्वयम् - अन्यसंयुक्तस्यासंयुक्तस्य वा सचित्तादिवस्तुनो द्रव्यादिना संयोजनं-संयोगः, स च संयुक्त संयोगादिभेदेनानेकधा पक्ष्यते, तस्मान्मात्रादिसंयोगरूपादौदविकादिक्लिष्टतरभावसंयोगात्मकाञ्च विविधैः -ज्ञानभावनादिभिर्विचित्रैः प्रकारैः प्रकर्षेण-परीपहोपसर्गादिसहिष्णुतालक्षणेन मुक्तो-भ्रष्टो विप्रमुक्तः, तस्य, 'जनगारस्ये'तिअविद्यमानमगारमस्येत्यनगार इति व्युत्पन्नोऽनगारशब्दो गृद्यते, यस्त्वव्युत्पन्नो रूढिशब्दो यतिवाचकः, यथोक्तम्'अनगारो मुनिर्मौनी, साधुः प्रत्रजितो व्रती । श्रमणः क्षपणश्चैव, यतिश्चैकार्थवाचकाः ॥ १॥' इति, स इह न गृह्यते, भिक्षुशब्देनैव तदर्थस्य गतत्वात्, तत्र चागारं द्विधा - द्रव्यभावभेदात्, तत्र द्रव्यागारमगैः- द्रुमदृपदादिभिर्निर्वृत्तं, | भावागारं पुनरगैः- विपाककालेऽपि जीवविपाकृतया शरीरपुद्गलादिषु वहिः प्रवृत्तिरहितैरनन्तानुबन्ध्यादिभिनिर्वृत्तं कषायमोहनीयं तत्र च द्रव्यागारपक्षे तन्निषेधे ततोऽनगारखाविद्यमानगृहस्येत्यर्थः, भावागारपक्षे स्वल्पताभिधायी, | ततः स्थितिप्रदेशानुभागतोऽत्यल्प कपाय मोहनीयस्येत्यर्थः, कषायमोहनीयं हि कर्म, न च कर्मणः स्थित्यादिभूयस्त्वे | विरतिसङ्गमः, यत आगमः - " सत्तेन्हं पयडीणं अम्भितरओ उ कोडिकोडीओ। काऊण सागराणं जइ लहइ चउण्हमनयरं ॥ १॥" इत्यादि, क्लिष्टतरभावसंयोग मुक्तत्वेनैव चास्य गतत्वे पुनरभिधानं कषायमोहनीयस्थातिदुष्टताख्यापनार्थ, १ सप्तानामपि प्रकृतीनामभ्यन्तरतस्तु कोटी कोट्याः । कृत्वा सागरोपमाणां यदि लभते चतुर्णामन्यतरत् ॥ १ ॥ For Parts at Le Only निर्युक्ति: [२९] ~40~ wrp मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy