________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [-]/गाथा ||१||
नियुक्ति: [२०३]
(४३)
असंस्कृता.
उत्तराध्य. बृहद्वृत्तिः ॥२०॥
प्रत सूत्रांक ||१||
भणियं । इह पजयऽवेक्खाए दवट्ठियनयमयं तं च ॥२॥” इति गाथार्थः ॥ २०२ ॥ उक्तमजीवभावकरणं, साम्प्रतं जीवभावकरणमाहजीवकरणं तु दुविहं सुयकरणं चैव नो य सुयकरणं । बद्धमबद्धं च सुअंनिसीहमनिसीहबद्धं तु ॥२०३॥
व्याख्या-जीवभावकरणं पुनः, तुशब्दस्य पुनरर्थत्वात् , 'द्विविधं' द्विप्रकारं, श्रुतस्य करणं श्रुतकरणं, भावकरणत्वं चास्य श्रुतस्य क्षायोपशमिकभावान्तर्गतत्वात् , चैवेति पूरणे, 'णो य सुयकरण ति चशब्दस्य व्यवहितसम्बन्धत्वात् नोश्रुतकरणं च । तत्राद्यमभिधित्सुराह-'बद्धं' प्रथितम् 'अबद्धं च एतद्विपरीतं श्रुते' श्रुतविषयं, करणमिति प्रक्रमः, तत्र च 'णिसीहमणिसीहबद्धं तु'त्ति बद्धं द्विविध-निशीथमनिशीथं च, तुशब्दबानयोरबद्धस्य च लौकिकलोकोत्तरभेदसूचकः, ततश्च निसीथं रहसि यत्पठ्यते व्याख्यायते या, तच लोकोत्तरं निशीधादि लौकिकं| बृहदारण्यकादि, अनिशीथमेतद्विपरीतं, तच लोकोत्तरमाचारादि लौकिकं पुराणादि, अबद्धमपि लौकिकलोको|त्तरभेदेन द्विभेदमेव, तत्र लोकोत्तरं यथैका मरुदेव्यत्यन्तस्थावरा सिद्धा खयम्भरमणे मत्स्यपद्मयोर्यलयवानि सर्वे|संस्थानानि सन्ति, विष्णुकुमारमहर्योजनलक्षप्रमाणशरीरविकरणं कुरुडविकरुडी कुणालायां स्थितावतिवृष्टया च तन्नाशः तयोधाशुभानुभावात्सप्तमनरकपृथिवीगमनं कुणालानाशाच भगवतो वीरस्य प्रयोदश्यां समायां केवलज्ञानोत्पत्तिरित्यादि अनेकप्रकारमाचार्यपरम्परायातं, लौकिकं त्वबद्धं द्वात्रिंशहडिकाः षोडश करणानि पश्च स्थानानि,
दीप अनुक्रम [११६]
॥२०४।।
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 408~