SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥४६॥ दीप अनुक्रम [ ९५] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१... ] / गाथा ||४६...|| अध्ययनं [३], Jus Education intam गच्छति इति सम्यक् तथा दृष्टिः अस्येति सम्ययदृष्टिः जीव उपदिष्टं प्रवचनं, तुशब्दो मिध्यादृष्टितः सम्यगदृष्टेर्विशेषमाह, 'श्रद्धते' निःशङ्कं प्रतिपद्यते, तत्किमसौ प्रवचनमेव श्रद्धत्ते इत्याह-श्रद्धत्ते 'असद्भावम्' उक्तस्वरूपम् 'अनाभोगात्' अज्ञानात्, तथा 'गुरवः' धर्माचार्यास्तेषां नियोगः-व्यापारणं गुरुनियोगस्तस्माद्वा, कश्विद्धि सम्यगृष्टिर्विशेषतो जीवादिखरूपानवगमाद् गुरुप्रत्ययाच्चातत्त्वमपि तत्त्वमिति प्रतिपद्यते । तदेवं प्रथमगाथया मिथ्यात्व हेतुकत्वमश्रद्धानस्योक्तम्, द्वितीयगाथथा पुनस्तदभावेऽप्यना भोगगुरुनियोगहेतुकत्वं, तथा च मिथ्यात्वादितद्धेतूनां व्यापित्वाद श्रद्धानभूयस्त्वेन श्रद्धानदुर्लभतोक्ता भवतीति गाथाद्वयपरमार्थः ॥ १६३ ॥ ननु किमेवंविधा अपि केचिदयन्त सृजनः सम्भवेयुः १ ये खयमागमानुसारिमतयोऽपि गुरूपदेशतोऽन्यथापि प्रतिपद्येरन्, एवमेतत्, तथाहि - जमालिप्रभृतीनां निह्नवानां शिष्यास्तद्भक्तियुक्ततया खयमागमानुसारिमतयोऽपि गुरुप्रत्ययाद्विपरीतमर्थ प्रतिपन्नाः, उक्तं हि "तए णं तस्स जमालिस्स अणगारस्स एवमाइक्खमाणस्स एवं भासतस्स एवं पण्णवेमाणस्स एवं परुवेमाणस्स अत्थि एगयया समणा णिग्गंधा एयमहं सहहंति पत्तियंति रोयंति" इत्यादि । के पुनरमी असद्भावं प्रतिपन्ना इत्याह निर्युक्तिः [१६२-१६३] १ ततस्तस्य जमालेरनगारस्य एवमाख्यायत एवं भाषमाणस्य एवं प्रज्ञापयत एवं प्ररूपयतः सन्त्येके श्रमणा निर्मन्थाः (ये) एनमर्थं अति प्रतियन्ति रोचन्ते । For Fans Only ~304~ www.jacibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy