________________
आगम
(४३)
प्रत
सूत्रांक
||४५||
दीप
अनुक्रम [४]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः)
मूलं [१] / गाथा ||४५ ||
अध्ययनं [२],
Education intimational
जिनसम्भवादित्यमुक्तं, विदेहादिक्षेत्रान्तरापेक्षया वेति भावनीयं, 'अदुवे 'ति अथवा, अपिः भिन्नक्रमो 'भविस्सह'त्ति वचनव्यत्ययाद्भविष्यन्ति, जिना इत्यपि 'मृषा' अलीकं, 'ते' जिनास्तित्ववादिनः, 'एवम्' अनन्तरोक्तन्यायेन 'आहंसु' ति आहुः ब्रुवत इति भिक्षुर्न चिन्तयेत्, जिनस्य सर्वज्ञाधिक्षेपप्रतिक्षेपादिषु प्रमाणोपपन्नतया प्रतिपादनात् तदुपदेशमूलत्वाच्च सकलैहिकामुष्मिकव्यवहाराणामिति सूत्रार्थः ॥ ४५ ॥ इदानीं शिष्यागमनद्वारं, तत्र च 'नत्थि नूणं परे लोए' इति सूत्रावयवसूचितमुदाहरणमाह
ओहाविउकामोऽवि य अज्जासादो उ पणीयभूमीए । काऊण रायरूवं पच्छा सीसेण अणुसिद्धो ॥ १२३ ॥ व्याख्या- 'अवधावितुकामोऽपि उन्निष्क्रमितुकामोऽपि, चः पूरणे, आर्याषाढस्तु 'पणितभूमौ' व्यवहारभूमौ | हट्टमध्य इत्यर्थः कृत्वा राजरूपं पश्चाच्छिष्येणानुशिष्ट इति गाथाक्षरार्थः ॥ १२३ ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् -
अथ भूमी अजासाठा णामायरिया बहुस्सुया बहुसीसपरिवारा य, तत्थ गच्छे जो कालं करेइ तं निज्जावैति भत्तपचखाणाइणा, तो बहवो णिज्जामिया । अन्नया एगो अप्पणतो सीसो आयरतरेण भणितो-देवलो१ अस्ति वत्सभूमी आर्याषाढा नामाचार्या बहुता बहुशिष्यपरीवाराश्च तत्र गच्छे यः कालं करोति तं निर्यामयन्ति भक्तप्रत्याख्यानादिना, ततो बहवो नियमिताः । अन्यदा एक आत्मीयः शिष्य आदरतरेण भणित:-देवली
For Parts Only
निर्युक्ति: [१२२]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
~267~
g