________________
आगम
(४३)
प्रत
सूत्रांक
||१३||
दीप
अनुक्रम [६२]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः)
मूलं [१] / गाथा ||१३||
अध्ययनं [२],
Jus Education intimatio
च विशेषतस्तद्धेतुत्वाद्, उक्तं च- "अह कुणसि थुलवत्थाइएस मुच्छं ध्रुवं सरीरेऽवि । अक्वेज्जदुलभतरे काहिसि गुच्छं "विसेसेण ॥ १ ॥” अथास्तु तन्निमित्तमेतत् तर्हि चीवरवत्तस्यापि किं दुस्त्यजत्वेन मुक्त्यङ्गतया वा न प्रथमत एव परिहारः १, दुस्त्यजत्वेन चेत् तदपि किमशेषपुरुषाणामुत केषाञ्चिदेव ?, न तावदशेषपुरुषाणां दृश्यन्ते हि बहवो वह्निप्रवेशादिभिः शरीरं परित्यजन्तः, अथ केषाञ्चित्, तदा वस्त्रमपि केषाञ्चित् दुस्त्यजमिति तदपि न परिहार्य, मुक्त्यतापक्षाश्रयणे च किं चीवरेणापराद्धम् ?, तस्यापि तथाविधशक्तिविकलानां शीतकालादिषु खाध्यायायु|पष्टम्भकत्वेन मुक्यङ्गत्वाद्, अभ्युपगम्य च मूर्च्छाहेतुत्वमुच्यते न हि निगृहीतात्मनां क्वचिन्मूर्च्छाऽस्ति, तदुक्तम्- "सर्वत्थुवहिणा बुद्धा, संरक्खणपरिग्गहे । अवि अप्पणोऽवि देहम्मि, णायरंति ममाइउं (यं ) ॥१॥" ति, नापि धारणादिमात्रेण, एवं हि शीतकालादौ प्रतिमाप्रतिपश्यादिषु केनचिद्भक्त्यादिनोपरि क्षितस्यापि चीवरस्य परिग्रहताप्रसङ्गः, अथ तत्र स्वयंग्रहाभावाददोषः, तर्हि खयंग्रहः परिग्रहत्वे हेतुः तथा च कुण्डिकाद्यपि नोपादेयं दृष्टेष्टविरोधि चेदम्, अथ तंत्र मूर्च्छाया अभावादपरिग्रहत्वम्, एवं सति संयमरक्षणायोपादीयमाने चीवरे तदभावात्तदस्तु, १ अथ करोषि स्थूलवस्त्रादिषु मूर्च्छा भुवं शरीरेऽपि । अक्रेयदुर्लभतरे करिष्यसि मूर्च्छा विशेषेण ॥ १ ॥ २ मूर्च्छाहेतुः शरीरं ३ सर्वत्रोपधिना बुद्धाः, संरक्षणपरिप्रहे । अपिचात्मनोऽपि देहे नाचरन्ति ममायितुम् (तम् ) ॥ १ ॥
Forest Use Only
निर्युक्ति: [९३]
~189~
www.brary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः