________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-],
मूलं [-],
नियुक्ति: [१]
(४३)
प्रत सूत्रांक [-]
REOS
र्थिकाः, शब्दा इति गम्यते, 'इति' प्रत्येकं पयर्यायखरूपनिर्देशार्थः, 'चः' समुच्चय इति गाथार्थः॥९॥ नामस्थापनाक्षपणे प्रसिद्ध इति द्रव्यक्षपणामाहपल्लत्थिया अपत्था तत्तो उप्पिट्टणा अपत्थयरी । निप्पीलणा अपत्था तिन्नि अपत्थाइ पुत्तीए ॥१०॥ ___ व्याख्या-पर्यस्तिका' प्रसिद्धा 'अपथ्या' अहिता, 'ततः' इति पर्यस्तिकात उत्प्राबल्येन पिट्टना उत्पिट्टनाउत्पिट्टनकादिना कुटनोस्पिट्टना अपथ्यतरा, 'निष्पीडना' अत्यन्तमावलनात्मिका 'अपथ्या' इति प्रस्तावादपथ्यतमा, सर्वत्र वस्त्रस्येति गम्यते, निगमयितुमाह-त्रीण्यपथ्यानि 'पोत्तीए'त्तिवस्त्रस्य, इह चाल्पाल्पतराल्पतमका-3 लत आभियनद्रव्यं क्षप्यत इति पर्यस्तिकादीनामपथ्यापथ्यतरापथ्यतमत्वं द्रव्यक्षपणत्वं चोक्तम्, अपथ्यानीति च निगमनं सामान्यस्याशेषविशेषसङ्ग्राहकत्वाददुष्टमिति गाथार्थः ॥ १०॥ भावक्षपणामाहअहविहं कम्मरयं पोराणं जं खवेइ जोगेहिं । एयं भावज्झयणं णेयत्वं आणुपुबीए ॥११॥
व्याख्या-'अष्टविधम् ' अष्टप्रकारं, क्रियत इति कर्म-ज्ञानावरणादि, रज इव रजो जीवशुद्धखरूपान्यधात्वकरणेन, इह चोपमावाचकशब्दमन्तरेणापि परार्थप्रयुक्तत्वात् अग्निर्माणवक इतिवदुपमानार्थोऽवगन्तव्यः, कर्मरज इति समस्तं वा पदं, 'पुराणम्' अनेकभवोपात्तत्वेन चिरन्तनं 'यत्' यस्मात् क्षपयति जन्तुः 'योगैः' भावाध्ययन
दीप अनुक्रम
[-]
JABERatinintamational
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 18~