________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||४८...||
नियुक्ति: [८६]
(४३)
प्रत सूत्रांक
[१]
तु यथाकथञ्चिद् ,गुरुविनयभीत्या गुरुपर्षदुत्थितेभ्यो वा सकाशात् , यथोच्यते-"परिसुटियाण पासे सुणेइ सो विषयपरिभंसि"त्ति, यदुक्तं 'भगवता आख्यातं द्वाविंशतिः परीषहाः' सन्तीति, तत्र किं भगवता अन्यतः पुरुषविशेषाद-13. पौरुषेयागमात् खतो या अमी अवगता इत्याह-श्रमणेन भगवता महावीरेण काश्यपेन 'पवेइय'त्ति सूत्रत्वात् प्रविदिताः, तत्र श्राम्यतीति श्रमण:-तपखी तेन, न तु 'ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्य चैव धर्मश्च,
सहसिद्धं चतुष्टयम् ॥१॥' इतिकणादादिपरिकल्पितसदाशिववदनादिसंसिद्धेन, तस्य देहादिविरहात् तथाविधप्रहै यत्नाभावेनाऽऽख्यानायोगाद् , उक्तं च-“वर्यणं न कायजोगाभावेण य सो अणादिसुद्धस्स । गहणम्मिय नो हेतू सत्थं
अत्तागमो कह णु ॥१॥" 'भगवतेति च समग्रज्ञानेश्वर्यादिसूचकेन सर्वज्ञतागुणयोगित्वमाह, तथा च यत् कैश्चिदुच्यते-'हेयोपादेयतत्त्वस्य, साध्योपायस्य वेदकः । यः प्रमाणमसाविष्टो, न तु सर्वस्य वेदकः॥१॥' इति, तयुदस्तं भवति, असर्वज्ञो हि न यथावत्सोपायहेयोपादेयतत्त्वविद्भवति, प्रतिप्राणि भिन्ना हि भावानामुपयोगशक्तयः, तत्र कोऽपि कस्यापि कथमपि काप्युपयोगीति कथं सोपायहेयोपादेयतत्त्ववेदनं सर्वज्ञतां विना सम्भवतीति, 'महावीरेणे' ति शक्रक|तनाना चरमतीर्थकरेण, 'काश्यपेन' काश्यपगोत्रेण, अनेन च नियतदेशकाल कुलाभिधायिना सकलदेशकालकला-14
१ पर्षदुत्थितानां पार्वे शृणोति स विनयपरिभ्रंशी । २ वचनं न काययोगाभावे न च सोऽनादिशुद्धस्य । पहणे न च हेतुः शास्त्रमात्मागमः
दीप अनुक्रम
[४९]
wwjanatarary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 163~