________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-],
मूलं [-],
नियुक्ति: [४]
(४३)
M
प्रत सूत्रांक [-]
नन्यध्ययनेऽप्युक्तम्-"जस्स जेत्तिया सीसा उप्पत्तियाए वेणइयाए कम्मयाए परिणामियाए चउबिहाए बुद्धीए | उबवेया तस्स तेत्तियाई पइण्णगसहस्साई" प्रकीर्णकानि चामूनि तत्कथं जिनदेशितत्वादिन विरुध्यते ?. उच्यते. | तथास्थितानामेव जिनादिवचसामिह रन्धत्वेन तद्देशितत्वाद्युक्तमिति न विरोधः । बन्ध-आत्मकर्मणोरत्यन्तसंश्लेपस्तस्मिन् , मोक्षः तयोरेवाऽऽत्यन्तिकः पृथग्भावस्तस्मिंश्च कृतानि, कोऽभिप्रायः?-यथा बन्धो भवति यथा च मोक्षस्तथा प्रदर्शकानि, तत्र बन्धे यथा-"आणाअणिहेसकरेति" मोक्षे यथा-"आणाणिहेसकरे"ति. आभ्यां Kा यथाक्रममविनयो विनयश्च प्रदर्श्यते, तत्राविनयो मिथ्यात्वाद्यविनाभूतत्वेन बन्धस्य विनयश्चान्तरपौरुषत्वेन मोक्षस्य कारणमिति तत्त्वतस्तौ यथा भवतस्तदेवोक्तं भवति, मोक्षप्राधान्येऽपि बन्धस्य प्रागुपादानमनादित्वोपदर्शनार्थ, यद्वा 'बंधे मोक्खे य त्ति' चशब्द एवकारार्थी भिन्नक्रमच, ततो बन्ध एव सति यो मोक्षस्तस्मिन् । कृतानि, अनेनानादिमुक्तमतव्यवच्छेदश्च कृतः, तत्र हि मोक्षशब्दार्थानुपपत्तिः सकलानुष्ठानवैफल्यापत्तिश्च, किमेवं कतिचिदेव ?, नेत्याह-पत्रिंशत्' पत्रिंशत्सङ्ख्यानि, कोऽर्थः-सर्वाणि उत्तराध्ययनानि इति गाथार्थः ॥४॥ इत्थं प्रसङ्गत उक्तरूपं संशयमपाकृत्याध्ययननिक्षेपं विनेयानुग्रहाय तत्पर्यायनिक्षेपातिदेशं चाह
१ यस्य चावन्तः शिष्या औत्पत्तिक्या बनविक्या कर्मजया पारिणामिक्वा चतुर्विधया युखोपपेतास्तस्य तावन्ति प्रकीर्णकसहस्राणि १२ आज्ञाऽनिर्देशकरः । ३ आज्ञानिर्देशकरः।
-194%A5-
दीप अनुक्रम
[-]
JABERatinintamational
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 14~