________________
आगम
(४३)
प्रत
सूत्रांक
[२०४
-२१४]
दीप
अनुक्रम [१६६९
-१६७९]
उत्तराध्य.
बृहद्वृत्तिः
॥७०२ ॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः +वृत्तिः) मूलं [ - ] / गाथा || २०४-२१४|| निर्युक्तिः [५५६...],
अध्ययनं [ ३६ ],
Education intimation
'असुरेत्यादिसूत्राण्येकादश प्रायः प्रतीतान्येव, नवरम् 'असुराः' इत्यसुरकुमाराः, एवं नागादिध्वपि कुमारशब्दः सम्बन्धनीयः सर्वेऽपि मी कुमाराकारधारिण एव यथोक्तं- " कुमारवदेव कान्तदर्शनाः सुकुमाराः मृदुमधुर| ललितगतयः शृङ्गाराभिजातरूपविक्रियाः कुमारबच्चोद्धतरूपवेष भाषाभरणप्रहरणावरणयानवाहनाः कुमारवञ्चोवणरागाः क्रीडनपराश्चेत्यतः कुमारा इत्युच्यन्ते" । 'तारागणाः' इति प्रकीर्णकतारकसमूहाः, दिशासु विशेषेणमेरुप्रादक्षिण्यनित्यचारितालक्षणेन चरन्ति - परिभ्रमन्तीत्येवंशीला दिशाविचारिणः, तद्विमानानि कादशभिरेकविंशैर्योजनशतैर्मेरो श्वतसृष्यपि दिश्ववाधया सततमेव प्रदक्षिणं चरन्तीति तेऽप्येवमुक्ताः, ज्योतींषि-उक्तन्यायतो विमानान्यालया-आश्रया येषां ते ज्योतिरालयाः । कल्प्यन्ते - इन्द्रसामानिक त्रायस्त्रिंशादिदशप्रकारत्वेन देवा एतेध्विति कल्पा देवलोकास्तानुपगच्छन्ति- उत्पत्तिविषयतया प्रामुवन्तीति कल्पोपगाः, कल्पान्-उक्तरूपानतीताः तदुपरिवर्त्तिस्थानोत्पन्नतया निष्क्रान्ताः कल्पातीताः । 'सोहम्मीसाणग'त्ति सुधर्मा नाम शक्रस्य सभा (सा) ऽस्मिन्नस्तीति सौधर्मः कल्पः स एवामवस्थितिविषयोऽस्तीति सौधर्मिणः, तथेशानो नाम द्वितीयदेवलोकस्तन्निवासिनो देवा अपि ईशानास्त एवेशानकाः एवमुत्तरत्रापि व्युत्पत्तिः कार्याः । प्रीवेव ग्रीवा लोकपुरुषस्य त्रयोदशरज्जूपरिवर्त्ती प्रदेशस्तस्मिन्निविष्टतयाऽतिभ्राजिष्णुतया च तदाभरणभूता ग्रैवेया- देवावासास्तन्निवासिनो देवा अपि मैवेयाः, न विद्यन्ते उत्तराः - प्रधानाः स्थितिप्रभावसुखद्युतिलेश्यादिभिरेभ्योऽन्ये देवा इत्यनुत्तराः, 'हेडिम' ति
Forest Use Only
भाष्यं [ १५...]
~ 1402~
जीवाजीच
विभक्ति०
३६
॥७०२ ॥
www.ncbrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः