________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं -1/ गाथा ||४८||
नियुक्ति : [६४...]
(४३)
उत्तराध्य. बृहद्वृत्तिः
प्रत
सूत्रांक
||४८||
-OCOCCASCLASSES
क इहोपयोगः !, उच्यते, उपक्रमेणोपक्रान्तस्य निक्षेपेण च यथासम्भवं निक्षिप्तस्य अनुगमेनानुगतस्य चास्यैवाध्यय-131 नस्य विचारणा, उक्तं च-"संबंधोवक्कमतो समीवमाणीय णत्वणिक्खेवं । सत्थं तोऽणुगम्मइ णएहि जाणाविहाणेहिं ॥१॥" अस्तु नयैर्विचारणा, साऽपि प्रतिसूत्रं समस्ताध्ययनस्य वा ?, न तावत् प्रतिसूत्रं, प्रतिसूत्रं नयावतारनिषेधस्यात्रैवाभिधानात्, अथ समस्ताध्ययनस्य, तदपि न, सूत्रव्यतिरिक्तस्य तस्थासम्भवाद्, उच्यते, यदुक्तंप्रतिसूत्रं नयावतारनिषेध इति, तदित्यमेव, यत्तु सूत्रव्यतिरिक्तस्याध्ययनस्यैवासम्भव इति, तदसत्, कथञ्चित् समुदायस्य समुदायिभ्योऽन्यत्वात् , शिबिकावाहकपुरुषसमूहवत् , इतरथा प्रत्येकावस्थाविलक्षणकार्यानुदयप्रसाद, | अस्त्वेवं तथाऽपि किमस्य समस्तनयैर्विचार उत कियद्भिरेव ?, न तावत् समस्तैरिति पक्षः क्षमः, तेषामसङ्ख्यत्वेन
तैर्विचारस्य कर्तुमशक्यत्वात् , तथाहि-यावन्तो वचनमार्गास्तावन्त एव नयाः, यथोक्तम्-"जावइया वयणपहा | तावइया चेव होंति नयवाया। जावइया नयवाया तावइया चेव परसमया ॥१॥" न च निजनिजामिप्रायविर| चितानां वचनमार्गाणां सङ्ख्याऽस्ति, प्रतिप्राणि भिन्नत्वादभिप्रायाणां, नापि कियद्भिरिति वक्तुं शक्यम् , अनवस्थाप्रसङ्गात् , सङ्ख्यातीतेषु हि तेषु यावदेभिर्विचारणा क्रियते तावदेभिरपि किं नेत्यनवस्थाप्रेरणायां न नैयत्याव
॥६७॥ १ संबन्धोपक्रमतः समीपमानीय न्यस्तनिक्षेपम् । शास्त्र ततोऽनुगम्यते नयैर्नानाविधानैः ॥१॥ २ यावन्तो वचनपथास्तावन्त एव | भवन्ति नयबादाः । यावन्तो नयवादास्तावन्त एवं परसमयाः ॥ १॥
RECENROCCOCK
दीप अनुक्रम [४८]
पा
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 137~