________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं -1/ गाथा ||४७||
नियुक्ति : [६४...]
(४३)
प्रत
सूत्रांक
||४७||
स पुजसत्थे सुविनीयसंसए, मणोरुई चिट्ठइ कम्मसंपया ।
तवोसमायारीसमाहिसंवुडे, महज्जुई पंच वयाइँ पालिया ॥४७॥ (सूत्रम्) व्याख्या-'स' इति शिष्यः प्रसादितगुरोरधिगतश्रुतः पूज्यं-सकलजनश्लाघादिना पूजाई शास्त्रमस्येति पूज्यशास्त्रः, विनीतस्य हि शास्त्रं सर्वत्र विशेषेण पूज्यते, यदि वा प्राकृतत्वात्पूज्यः शास्ता गुरुरस्खेति पूज्यशास्तृकः, विनीतो| हि विनेयः शास्तारं पूज्यमपि विशेषतः पूजां प्रापयति, अथवा पूज्यश्चासौ शस्त्रश्च सर्वत्र प्रशंसास्पदत्वेन पूज्यशस्तः, सुष्टु-अतिशयेन विनीत,-अपनीतः प्रसादितगुरुणैव शास्त्रपरमार्थसमर्पणेन संशयो-दोलायमानमानसात्मकोऽस्खेति
सुविनीतसंशयः, सुविनीता वा संसत्-परिषदस्पेति सुविनीतसंसत्कः, विनीतस्य हि खयमतिशयविनीतैव परिपद्धविति, 'मणोरुई 'त्ति मनसः-चेतसः प्रस्तावाद् गुरुसम्बन्धिनी रुचिः-प्रतिभासोऽस्मिन्निति मनोरुचिः, 'तिष्ठति'
आस्ते, विनयाधिगतशास्त्रो हि न कथञ्चिद्गुरूणामप्रीतिहेतुरिति, तथा 'कम्मसंपय'त्ति कर्म-क्रिया दशविधचक्रवालसामाचारीप्रभृतिरितिकर्तव्यता तस्याः सम्पत्-सम्पन्नता तया, लक्षणे तृतीया, ततः कर्मसम्पदोपलक्षितस्तिष्ठतीति द सम्बन्धः, हेतौ वा तृतीया, मनोरुचित्वापेक्षया च हेतुत्वम्, अथवा मनोरुचितेव मनोरुचिता तिष्ठति-आस्ते
कर्मणां-ज्ञानावरणादीनां सम्पद्-उदयोदीरणादिरूपा विभूतिः कर्मसम्पद् , अस्येति गम्यते, तदुच्छेदशक्तियुक्ततयाऽस्य प्रतिभासमानतयेव तत्स्थितेरुपलक्ष्यमाणत्वात्, पठ्यते च-'मणोरुइति तत्र मनसो रुचिः-अभिलापोयसिं
दीप अनुक्रम
4%25%
[४७]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 134~