SearchBrowseAboutContactDonate
Page Preview
Page 1304
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३४], मूलं [-]/ गाथा ||४-९|| __ नियुक्ति: [१४५...] (४३) * प्रत ** सूत्रांक [४-९] * तत्सरशी पदविपर्ययः प्राग्वत् नीललेश्या तु वर्णतो नीलेति तात्पर्यम् । अतसी-धान्यविशेषस्तत्पुष्पसङ्काशा, कोकिलच्छदः-तैलकण्टकः, तथा च वृद्धसम्प्रदायः-“वण्णाहिगारे जो एत्थ कोइलच्छदो सो तेलकंटतो भण्णई"त्ति, कचित्तु पठ्यते च-'कोइलच्छवि'त्ति,तत्र कोकिला-अन्यपुष्टस्तस्य छविस्तत्संनिभा, पारापतः-पक्षिविशेषस्तस्य ग्रीवा-कन्धरा तन्निभा कापोतलेश्या तु वर्णतः, किश्चित्कृष्णा किञ्चिच लोहितेति भावः, तथा च प्रज्ञापना-"काऊलेसा काललोहितेण यण्णेणं साहिजइ"त्ति।हिङ्गुलुकः-प्रतीतो धातुः-पाषाणधात्वादिस्तत्सङ्काशा, तरुण इहाभिनयोदितः आदित्यः-- सूर्यस्तत्संनिमा, शुकः-प्रसिद्धस्तस्य तुण्डं-मुखं शुकतुण्डं तच प्रदीपश्च तन्निभावा, पठन्ति च-'सुयतुंडालत्तदीवाभा' अन्ये तु 'सुयतुंडग्गसंकासा' द्वयमपि स्पष्ट, तेजोलेश्या तु वर्णतो रक्तेति भावार्थः । हरितालो-धातुविशेषस्तस्य भेदो । |-द्विधाभावस्तत्सकाशा, भिन्नस्य हि वर्णप्रकर्षों भवतीतिभेदग्रहणं, हरिद्रेह पिण्डहरिद्रा तस्या भेदस्तत्संनिभा, सणोधान्यविशेषोऽसनो-बीयकस्तयोः कुसुमं तन्निभा पालेश्या तु वर्णतःपीतेति गर्भार्थः । शङ्ख:-प्रतीतोऽको-मणिविशेषः कुन्दः-कुन्दकुसुमं तत्सङ्काशा, क्षीरं-दुग्धं तूलकं-तूलं पाठान्तरतः पूरो वा-क्षीरप्रवाहः, अन्ये तु 'धारि'त्ति पठन्ति, तद्ब्रहणं तु भाजनस्थस्य हि तदशादन्यथात्वमपि संभवतीति तत्समप्रभा, रजतं-रूप्यं हारो-मुक्ताकलाप-R |स्तत्सङ्काशा शुक्ललेश्या तु वर्णतः शुक्लेति हृदयमिति सूत्रपकार्थः । इत्युक्तो वर्णः सम्प्रति रसमाह जह कडयतुंबरसो निवरसो कडयरोहिणिरसो वा । इत्तोवि अणंतगुणो रसो उ कण्हाइ नायब्बो ॥१०॥ दीप अनुक्रम [१३८६-१३९१] * * andibrary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1303~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy