________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३४],
मूलं [-]/ गाथा ||१|| नियुक्ति: [५४५...]
(४३)
प्रत
सूत्रांक
लेसज्झयणं पवक्खामि, आणुपुचि जहक्कम । छहंपि कम्मलेसाणं, अणुभाचे मुणेहि मे ॥१॥ लेश्याभिधायकमध्ययनं लेश्याऽध्ययनं तत् 'प्रवक्ष्यामि' प्रकर्षण-तासामेव नामवर्णादिनिरूपणात्मकेनाभिधास्ये, आनुपूर्व्या यथाक्रममिति च प्राग्वत् , तत्र च 'षण्णामपि' षट्सङ्खयानामपि वक्ष्यमाणभेदेन 'कर्मलेश्याना' कर्मस्थितिविधातृतत्तद्विशिष्टपुद्गलरूपाणाम् 'अनुभावान्' रसविशेषान् शृणुत मम कथयत इति शेष इति सूत्रार्थः । एतदनुभावाश्च नामादिप्ररूपणातः कथिता एव भवन्तीति तत्प्ररूपणाय विनेयाभिमुखीकरणकारि द्वारसूत्रमाहनामाई वण्णरसगंधफासपरिणामलक्खणं ठाणं । ठिई गई च आउं, लेसाणं तु सुणेह मे ॥२॥ दारगाहा॥ 'नामानि' अभिधानानि वर्णश्च-कृष्णादी रसश्च-तिक्तादिर्गन्धश्च-सुरभ्यादिः स्पर्शश्च-कर्कशादिः परिणामश्चजघन्यादिः लक्षणं च-पञ्चाश्रवासेवनादि, एषां समाहारे वर्णगन्धरसस्पर्शपरिणामलक्षणं तत् , 'स्थानम्' उत्कर्षापकपरूपं स्थितिम्' अवस्थानकालं गतिं च नरकादिकां यतो याऽवाप्यते 'आयुः जीवितं च यावति च तत्रावशिष्यमाणे आगामिभवलेश्यापरिणामस्तदिह गृह्यते, लेश्यानां 'तुः' पूरणे 'सुणेह में ति प्राग्यदिति सूत्रार्थः । अत्र च 'यथोद्देशं निर्देश' इति न्यायतो नामान्याह
किण्हा नीला य काऊ य, तेऊ पम्हा तहेव य । सुक्का लेसा य छट्ठा उ, नामाई तु जहक्कम ॥ ३ ॥ किण्हासूत्रं स्पष्टमेव ॥ प्रत्येकमासां वर्णानाह
***
SHARE
दीप अनुक्रम [१३८३]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1301 ~