________________
आगम
(४३)
प्रत
सूत्रांक
||२७||
दीप
अनुक्रम
[९६२]
“उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः)
मूलं [--] / गाथा ||२७...||
अध्ययनं [२५],
Education intimatio
| रहितः, स च वासग्रन्थरहितोऽपि स्यादत आह- सर्वो- बाह्य आन्तरश्च यो ग्रन्थस्तेनोन्मुक्तः सर्वग्रन्थोन्मुक्तः, वक्ष्यमाणश्रमणविशेषणान्येतानि, 'व्युत्सृज्य' त्यक्त्वा 'अ सारान् परमार्थालोचनायामप्रधानान् 'केशैः' शिरोरुहैः 'सम' सह | परिक्लेशयन्तीति परिक्लेशाः - प्रस्तावात्पुत्रकलत्रादिसम्बन्धास्तान् । घटनं-संयमयोगविषयं चेष्टनं यतनं — तत्रैवोपयुक्तत्वं ताभ्यां प्रधानः-- प्रवरो घटनयतनप्रधानः 'जात' भूतः 'श्रमणः ' तपखी शमितानि पापानि - मिथ्यात्वादिपापप्रकृतिरूपाणि येनासौ शमितपापः । भावार्थस्त्वासां सम्प्रदायादवसेयः, स चायम् - वाणारसीए नयरीए दो विप्पभायरो यमला आसी जयघोसविजयघोसा, अन्नया जयघोसो व्हाइउं गओ गंगं, तत्थ पेच्छइ सप्पेण मंडूकं गसिजंतं, सप्पोवि मज्जारेण उच्छित्तो, मज्जा सप्पं अकमिउं ठिओ, तथावि सप्पो मंडूकं चिंचियंत खायति, मज्जारोवि सप्पं चडफडतं खायति, अन्नमन्नं घायं पासित्ता परिबुद्धो गंगमुत्तरिऊण साहसगासे समणो जातो ति । इति गाथाऽष्टकार्थः । इत्यभिहितं किञ्चिदुपोद्घातनिर्युतयनुगमान्तर्गतं, सम्प्रति सूत्रस्पर्शिक नियुक्त्यनुगमावसरः, स च सूत्रे सति भवतीति सूत्रानुगमे सूत्रमुचारणीयं तथेदम्
१ वाराणस्यां नगर्यां द्वौ विप्रभ्रातरौ यमलावास्तां जयघोषविजयघोषौ, अन्यदा जयघोषः स्नातुं गतो गङ्गां, तत्र प्रेक्षते सर्पेण मण्डूकं ग्रस्यमानं, सर्पोऽपि मार्जारेणोत्क्षिप्तः, मार्जारः सर्पमाक्रम्य स्थितः, तथापि सर्पों मण्डूकं चिचिकुर्वन्तं खादति, मार्जारोऽपि सर्प कम्पमानं खादति, अन्योऽन्यघातं दृष्ट्वा प्रतिबुद्धो गङ्गामुत्तीर्व साधुसकाशे श्रमणो जात इति ॥
निर्युक्ति: [४६३-४७०]
For Fast Use Onl
~ 1042~
wrp
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः