________________
आगम
(४३)
प्रत
सूत्रांक ||६९
-७२||
दीप
अनुक्रम
[९१६
-९१९]
उत्तराध्य.
बृहद्वृत्तिः
॥५०९ ॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः)
अध्ययनं [२३],
मूलं [-] / गाथा ||६९-७२||
निर्युक्तिः [४५४...]
सूत्रचतुष्टयं, 'अण्णवंसि महोहंसि'त्ति, 'अर्णवे' समुद्रे 'महौघे' बृहज्जलप्रवाहे 'नावा विपरिधावइ 'त्ति 'नौः' द्रोणी 'विपरिधावति' विशेषेण समन्ताद्गच्छति 'यां' नावम् 'असि' भवसि यस्यां वा नावि हे गौतम ! 'आरूढः' चटितस्त्वमिति गम्यते, ततः 'कथं' केन प्रकारेण 'पारं' पर्यन्तं प्रक्रमादर्णवस्य 'गमिष्यसि ?' यास्यसि १, न कथञ्चिदिति प्रटुराशयः । गौतम आह- 'जा उ'त्ति या 'तुः' पूरणे आश्राविणी-जलसंग्राहिणी पाठान्तरतः साश्राविणी वा-सहाश्राविभिः- जलप्रवेशान्वितैः प्रक्रमात्सन्धिभिर्वर्त्तत इतिकृत्वा 'नौ' द्रोणी न सा 'पारस्य' प्रस्तावात्समुद्रपर्यन्तस्य 'गामिनी' अवश्यंयायिनी, 'जा निरस्साविणि'त्ति उत्तरत्र तुशब्दस्य भिन्नक्रमत्वाद् या पुनर्निष्क्रान्ता आश्राविभ्यः प्राग्वत् सन्धिभ्यो निराश्राविणी नौः सा 'पारस्य' उक्तरूपस्य 'गामिनी' अवश्यं पारप्रापिका, ततोऽहं निराश्रा| विणीमारूढ उपायतः पारगाम्येव भविष्यामीति भावः । 'नावे'त्यादि प्रतीतार्थ, नवरं नावस्तरणत्वात्तरिता तार्य च पृष्टमेवात एवोत्तरमाह - शरीरम् 'आहुः' ब्रुवते नौरिति, तस्यैव सम्यग्दर्शनादित्रयानुष्ठानहेतुतया, भवोदधिनिस्तारकत्वाज्जीवः 'उच्यते' प्रतिपाद्यते तीर्थकृद्भिरिति शेषो नाविकः, स युक्तरूपया नावा भवोदधिं तरतीति, संसारः 'अर्णवः' समुद्र उक्तः, तस्यैव तत्त्वतस्तार्यत्वात्, 'यं' संसारमर्णवप्रायं तरन्ति 'महेसिणो' त्ति प्राग्वन्महदेषिणो महयो वा तदा च तथाविधमहर्षीणां प्रत्यक्षत्वात् श्रोतृप्रतीत्यर्थमेतदिति सूत्रचतुष्टयार्थः ॥
Jan Eiration Intl
F&P On
केशिगौत
मीयाध्य०
२३
~ 1017 ~
||५०९ ॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३], मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः