________________
आगम
(४२)
प्रत
सूत्रांक
||१-७||
दीप
अनुक्रम
[४५६
-४६२]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः)
अध्ययनं [९], उद्देशक [३] मूलं [ १५...] / गाथा ||१७|| निर्युक्ति: [ ३२७...], भाष्यं [६२...]
दश० ४३
Education
दिभावरत्नाभ्युच्छ्रितेषु 'विनय' यथोचितं 'प्रयुङ्क्ते' करोति, तथा डहरा अपि च ये वयः श्रुताभ्यां 'पर्यायज्येष्ठाः' चिरप्रव्रजितास्तेषु विनयं प्रयुङ्के, एवं च यो 'नीचत्वे' गुणाधिकान् प्रति नीचभावे वर्त्तते 'सत्यवादी' | अविरुद्धवक्ता तथा 'अवपातवान्' वन्दनशीलो निकटवर्ती वा एवं च यो 'वाक्यकरो' गुरुनिर्देशकरणशीलः स पूज्य इति सूत्रार्थः ॥ ३ ॥ किं च- 'अज्ञातोन्छे' परिचयाकरणेनाज्ञातः सन् भावोञ्छं गृहस्थोद्धरितादि 'चरति' अटित्वाऽऽनीतं मुझे, न तु ज्ञातस्तइहुमतमिति, एतदपि 'विशुद्धम् उद्गमादिदोषरहितं न तद्विपरीतम्, एतदपि 'यापनार्थ संयमभरोद्वाहिशरीरपालनाय नान्यथा 'समुदानं च' उचितभिक्षालब्धं च 'नित्यं' सर्वकालं न तूञ्छमप्येकत्रैव बहुलब्धं कादाचित्कं वा, एवंभूतमपि विभागतः 'अलब्ध्वा' अनासाथ 'न परिदेवयेत्' न खेदं यायात्, यथा- मन्दभाग्योऽहमशोभनो वाऽयं देश इति, एवं विभागतश्च 'लब्ध्वा' प्राप्योचितं 'न विकत्थते' न श्लाघां करोति-सपुण्योऽहं शोभनो वाऽयं देश इत्येवं स पूज्य इति सूत्रार्थः ॥ ४ ॥ किं च संस्तारकशय्यासनभक्तपानानि प्रतीतान्येव, एतेषु 'अल्पेच्छता' अमूर्च्छया परिभोगोऽतिरिक्ताग्रहणं वा अतिलाभेऽपि सति संस्तारकादीनां गृहस्येभ्यः सकाशात् य एवमात्मानम् 'अभितोषयति' येन वा तेन वा यापयति 'संतोषप्राधान्यरतः' संतोष एवं प्रधानभावे सक्तः स पूज्य इति सूत्रार्थः ॥ ५ ॥ इन्द्रियसमाधिद्वारेण पूज्यतामाह-शक्याः सोदुम 'आशयेति इदं मे भविष्यतीति प्रत्याशया, क इत्याह-कण्टका 'अयोमया' लोहात्मका: 'उत्सहता नरेष' अर्थोद्यमवतेत्यर्थः तथा च कुर्वन्ति केचिदयोमयकण्टकास्तरणशय
Far P&Personal Use City
मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ ४२ ], मूल सूत्र [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः
~508~