________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [४], उद्देशक [-1, मूलं [१५...] / गाथा ||१४-२५|| नियुक्ति: [२३२...], भाष्यं [६०...]
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
1%
प्रत सूत्रांक
॥१४
-२५||
| साम्पतं पष्ठेऽधिकारे धर्मफलमाह-'जया' इत्यादि, 'यदा' यस्मिन् काले जीवानजीवांश्च द्वावप्येती विजानाति-विविधं जानाति 'तदा' तस्मिन् काले 'गति' नरकगत्यादिरूपां 'बहुविधां खपरगतभेदेनानेकप्रकारां
सर्वजीवानां जानाति, यथाऽवस्थितजीवाजीवपरिज्ञानमन्तरेण गतिपरिज्ञानाभावात् ॥१४॥ उत्तरोत्तरां लफलवृद्धिमाह-'जया' इत्यादि, यदा गतिं बहुविधां सर्वजीवानां जानाति तदा पुण्यं च पापं च-बहुविधगतिनिवन्धनं [च तथा 'वन्ध जीवकर्मयोगदुःखलक्षणं 'मोक्षं च तद्वियोगसुखलक्षणं जानाति ॥ १५॥ 'जया इत्यादि, यदा पुण्यं च पापं च बन्धं मोक्षं च जानाति तदा निर्विन्ते-मोहाभावात् सम्यग्विचारयत्यसारदु:खरूपतया "भोगान्' शब्दादीन् यान दिव्यान् यांश्च मानुषान, शेषास्तु वस्तुतो भोगा एव न भवन्ति ॥१६॥ 'जया' इत्यादि, यदा निर्विन्ते भोगान् यान् दिव्यान् यांश्च मानुषान् तदा त्यजति 'संयोग' संबन्ध द्रव्यतो भावतः 'साभ्यन्तरवाह्य क्रोधादिहिरण्यादिसंबन्धमित्यर्थः ॥ १७॥ 'जया' इत्यादि, यदा त्यजति संयोग साभ्यन्तरवायं तदा मुण्डो भूत्वा द्रब्यतो भावतश्च 'प्रव्रजति' प्रकर्षेण व्रजस्यपवर्ग प्रत्यनगार, द्रव्यतो भाव-18 तश्चाविद्यमानागारमिति भावः ॥१८॥ जया' इत्यादि, यदा मुण्डो भूत्वा प्रव्रजत्यनगारं तदा 'संवरमुक्किट ति | प्राकृतशैल्या उत्कृष्टसंवरं धर्म-सर्वप्राणातिपातादिविनिवृत्तिरूपं, चारित्रधर्ममित्यर्थः, स्पृशत्यनुत्तरं-सम्यगासेवत इत्यर्थः ॥ १९ ॥ 'जया' इत्यादि, यदोत्कृष्टसंवरं धर्म स्पृशत्यनुत्तरं तदा धुनोति-अनेकार्थत्वात्पात-ट्रि यति 'कौरजः कर्मव आत्मरक्षनाद्रज इव रजा, किंविशिष्टमित्याह-अयोधिकलुषकृतम्' अयोधिकलुषण
%%%4%
9551कर
दीप अनुक्रम [६०-७१]]
~320~