________________
आगम
(४२)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम [३२]
दशकाo हारि-वृत्तिः
।। १२६ ।।
Ja Education
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः)
अध्ययनं [४], उद्देशक [-] मूलं [१] / गाथा ||१५...|| निर्युक्तिः [२२४...], भाष्यं [२६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
'शब्दतः सिद्धिः' वाचकाद्वाच्यप्रतीतेः, एतदेव प्रश्नद्वारेणाह - 'कस्मात् ' कुत एतदेवमिति ?, आह-'शुद्धपदत्वात्' केवल पदत्वाज्जीवशब्दस्य, घटखरशृङ्गानुमानादू, अनुमानशब्दो दृष्टान्तवचनः घटखरशृङ्गदृष्टान्तादिति प्रयोगार्थः, प्रयोगस्तु- मुख्येनार्थेनार्थवान् जीवशब्दः, शुद्धपदत्वाद्, घटशब्दवत्, यस्तु मुख्येनार्थेनार्थवान् न भवति स शुद्धपदमपि न भवति, यथा खरशृङ्गशब्द इति गाधार्थः ॥ पराभिप्रायमाशङ्कय परिहरन्नाह
चोयग सुद्धपयत्ता सिद्धी जइ एवं सुण्णसिद्धि अम्हं पि । तं न भवइ संतेणं जं सुनं सुनगेहूं व ॥ २७ ॥ भाष्यम् || व्याख्या-उक्तवच्छुद्धपदत्वात्सिद्धिर्यदि जीवस्य एवं तर्हि शून्यसिद्धिरस्माकमपि, शून्यनष्टशब्दस्यापि शुद्धपदत्वादित्यभिप्रायः, अत्रोत्तरमाह तन्न भवति यदुक्तं परेण, कुत इत्याह-'सता' विद्यमानेन पदार्थेन 'यद्' यस्माच्छून्यं शून्यमुच्यते, किंवदित्याह - शून्यगृहमिव, तथाहि - देवदत्तेन रहितं शून्यगृहमुच्यते, निवृत्तो घटो नष्ट इति, नत्वनयोर्जीवशब्दस्य जीववदच (वि) शिष्टं वाच्यमस्तीति गाथार्थः ॥ प्रकारान्तरेणास्तित्वपक्षमेव समर्थयन्नाह
मिच्छा भas acer, जे केई पारलोइया । कता चैवोपभोत्ता य, जइ जीवो न विजइ ॥ २८ ॥ भाष्यम् ।। व्याख्या- 'मिथ्या भवेयुः' अन्नृताः स्युः सर्वेऽर्धा ये केचन पारलौकिका - दानादयः, यदि किमित्याह-कर्ता चैव कर्मणः उपभोक्ता च तत्फलस्य, यदि जीवो न विद्यते परलोकपायीति गाथार्थः ॥ एतदेवाव्युत्पन्नशि ध्यानुग्रहार्थ स्पष्टतरमाह
Forane & Personal Use City
~ 255~
४ षड्जीवनिकाध्य० जीवसिद्धिः
॥ १२६ ॥
ibrary dig