________________
आगम
(४२)
प्रत
सूत्रांक | ॥१-१०||
दीप
अनुक्रम [१७-२६]
दशवैका ० हारि-वृत्तिः
॥ ११६ ॥
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः)
अध्ययनं [३], उद्देशक [-] मूलं [-] / गाथा ||१- १० || निर्युक्ति: [ २१४...], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [४२] मूल सूत्र - [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः
अस्य व्याख्या - इह संहितादिक्रमः क्षुण्णः, भावार्थस्त्वयम् - 'संयमे' द्रुमपुष्पिकाव्यावर्णितखरूपे शोभनेन प्रकारेण आगमनीत्या स्थित आत्मा येषां ते सुस्थितात्मानस्तेषां त एवं विशेष्यन्ते विविधम्- अनेकैः प्रकारै: प्रकर्षेण-भावसारं मुक्ताः परित्यक्ताः बाह्याभ्यन्तरेण ग्रन्धेनेति विप्रमुक्तास्तेषां त एवं विशेष्यन्ते - त्रायन्ते आत्मानं परमुभयं चेति त्रातारः, आत्मानं प्रत्येकबुद्धाः परं तीर्थकराः, खतस्तीर्णत्वाद्, उभयं स्थविरा इति तेषामिदं वक्ष्यमाणलक्षणं अनाचरितम् अकल्प्यं, केषामित्याह-निर्ग्रन्थानां' साधूनामित्यभिधानमेतत् महान्तश्च ते ऋषयश्च महर्षयो यतय इत्यर्थः अथवा महान्तं एषितुं शीलं येषां ते महेषिणस्तेषां, इह च पूर्वपूर्वभाव एवं उत्तरोत्तरभावो नियमितो हेतुहेतुमद्भावेन वेदितव्यः, यत एव संयमे सुस्थितात्मानोऽत एव विप्रमुक्ताः, संयमसुस्थितात्मनिबन्धनत्वाद्विप्रमुक्तेः, एवं शेषेष्वपि भावनीयं, अन्ये तु पश्चानुपूर्व्या हेतुहेतुमद्भावमित्थं वर्णयन्ति यत एव महर्षयोऽत एव निर्ग्रन्थाः, एवं शेषेष्वपि द्रष्टव्यमिति सूत्रार्थः ॥ सा|म्प्रतं यदनाचरितं तदाह- 'उद्देसियं'ति उद्देशनं साध्वायाश्रित्य दानारम्भस्येत्युद्देशः तत्र भवमौदेशिकं १, क्रयणं क्रीतं, भावे निष्ठाप्रत्ययः, साध्वादिनिमित्तमिति गम्यते, तेन कृतं निवर्तितं क्रीतकृतं २, 'नियाग'मित्यामन्त्रितस्य पिण्डस्य ग्रहणं नित्यं न त्वनामन्त्रितस्य ३, 'अभिहडाणि यत्ति खग्रामादेः साधुनिमित्तमभिमुखमानीसमभ्याहृतं बहुवचनं स्वग्रामपरग्रामनिशीथादिभेदख्यापनार्थ४, तथा 'रात्रिभक्तं' रात्रिभोजनं दिवसगृहीतदिवस मुक्तादिचतुर्भङ्गलक्षणं ५, 'स्वानं च' देशसर्वभेदभिन्नं, देशस्नानमधिष्ठानशौचातिरेकेणा ॥ ११६ ॥
For ne&Personal Use City
~ 235~
३ क्षुल्लिका
चारकथा०
अनाचीर्णस्वरूपं