________________
आगम
(४२)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[१७]
दशवैका ० हारि-वृत्तिः
॥ ११५ ॥
भाष्यं [ ४... ]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [३], उद्देशक [−], मूलं [-] / गाथा ||१|| निर्युक्तिः [२१४], मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र -[ ४२ ], मूल सूत्र - [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः
पकेन उत्तेजिता अधिकं दीपिता, केत्याह-मोह एव चारित्रमोहनीयकर्मोदयसमुत्थात्मपरिणामरूपः कुपितफुफुका-घटितकुकुला 'हसहसिंति'त्ति जाज्वल्यमाना जायत इति वाक्यशेषः, यां शृण्वतः कथां मोहोदयो जायत इत्यर्थः, श्रमणेन - साधुना न सा कथयितव्या, अकुशल भावनिबन्धनत्वादिति गाथार्थः । यत्प्रकारा कथनीया तत्प्रकारामाह-श्रमणेन कथयितव्या, किंविशिष्टेत्याह- 'तपोनियमकथा' अनशनादिपञ्चाश्रवविरमणादिरूपा, साऽपि विरागसंयुक्ता न निदानादिना रागादिसंगता, अत एवाह-यां कथां श्रुत्वा मनुष्यःश्रोता व्रजति-गच्छति 'संवेयणिव्वेद'ति संवेगं निर्वेदं चेति गाथार्थः । कथाकथनविधिमाह - महार्थापि कथा अपरिक्लेशबहुला कथयितव्या, नातिविस्तरकथनेन परिक्लेशः कार्य इत्यर्थः किमित्येवमित्यत आह--'हंदी'त्युपदर्शने महता चडकरत्वेन - अतिप्रपञ्चकथनेनेत्यर्थः किमित्याह - अर्थ कथा हन्ति-भावार्थं नाशयतीति गाथार्थः । विधिशेषमाह-क्षेत्रं- भौताविभावितं कालं श्रीयमाणादिलक्षणं पुरुषं पारिणामिकादिरूपं सामर्थ्य चात्मनो ज्ञात्वा प्रकृते वस्तुनीति योगः श्रमणेन त्वनवद्या- पापानुबन्धरहिता कथा कथयितव्या, नान्येति गाधार्थः । उक्ता कथा, तदभिधानाद्वतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तचेदम्
संजमे सुट्टिअप्पाणं, विप्पमुक्काण ताइणं । तेसिमेयमणाइण्णं, निग्गंथाण महेसिणं
Ja Education matunal
Forte & Personal Use City
~ 233~
क्षुल्लिकाचारकथा० कथादिस्वरूपं
॥ ११५ ॥
by dig