________________
आगम (४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [-], उद्देशक [-], मूलं [-], नियुक्ति: [१], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्राक
दीप अनुक्रम
माजात्युत्तरादिना निगृहीतः प्रत्युत्तरदानसमर्थों भवति, नानाविधदेशभाषाविधिज्ञो नानादेशजविनेयप्रत्याय
नसमर्थों भवति, ज्ञानादिपञ्चविधाचारयुक्तः श्रद्धेयवचनो भवति, सूत्रार्थोभयज्ञः सम्यगुत्सर्गापवादप्ररूपको दाभवति, उदाहरणहेतुकारणनयनिपुणस्तद्गम्यान भावान् सम्यक प्ररूपयति नागममात्रमेव, ग्राहणाकुशलः शिष्याननेकधा ग्राहयति, स्वसमयपरसमयवित् सुखं परमताक्षेपमुखेन स्खसमयं प्ररूपयति, गम्भीरो महत्यप्यकार्ये न रुष्यति, दीप्तिमान परमवादिक्षोभमुत्पादयति, शिवो मारिरोगाद्युपद्वविधातकृद् भवति, सौम्यः प्रशान्तदृष्टितया सकलजनप्रीत्युत्पादको भवति, इत्थंभूत एव गुणशतकलितो योग्यः प्रवचनम्-आगमस्तस्य सारस्तं कथयितुमिति, यतोऽसावनेकभव्यसत्त्वप्रबोधहेतुर्भवति, उक्तं च-"गुणसुटिअस्स वयणं घयमहुसित्तोब्व पावओ भाइ । गुणहीणस्स न सोहइ णेहविहीणो जह पईवो ॥१॥” तथा चान्येनाप्युक्तम्
क्षीरं भाजनसंस्थं न तथा वत्सस्य पुष्टिमावहति । आवल्गमानशिरसो यथा हि मातृस्तनास्पिवतः॥१॥ तद्वत्सुभाषितमयं क्षीरं दुःशीलभाजनगतं तु । न तथा पुष्टिं जनयति यथा हि गुणवन्मुखात्पीतम् ॥ २ ॥ शीतेऽपि यनलब्धो न सेव्यतेऽग्निर्यथा श्मशानस्थः । शीलविपन्नस्य वचः पथ्यमपि न गृह्यते तद्वत् ॥ ३ ॥ चारित्रेण विहीनः श्रुतवानपि नोपजीव्यते सद्धिः। शीतलजलपरिपूर्णः कुलजैश्चाण्डालकूप इव ॥४॥"क
न्यायसूत्रे पश्चमाभ्यायापालिके सविस्तर आतिखरूपम्. २°पि कार्वे. ३°तसमन्वितःप्र.४ गुणसुस्थितस्य चनं घृतमधुसिक्तः पावक इस भाति । गुणहीनस्य न शोभते नेहविहीनो यथा प्रदीपः ॥१॥
~ 14~