SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५] → “नियुक्ति: [१-२] + भाष्यं -1 + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: श्रीओघ- नियुक्तिः प्रत गाथांक नि/भा/प्र ||२|| द्रोणीया वृत्तिः पूर्वाणि विद्यन्ते येषां ते चतुर्दशपूर्विणस्तांश्च, वन्दित्वेति सर्वत्र क्रिया मीलनीया, किं तानेव !, नेत्याह-'तथैव दशपूर्वि-दी मङ्गलादि णश्च' 'तथेति आगमोक्तेन प्रकारेण एवेति क्रमनियमप्रतिपादनार्थः अनेनैव क्रमेण दशपूर्विण इति, दश पूर्वाणि विद्यन्ते | नि.१-२ येषां ते दशपूर्विणः, न केवलं तानेव, 'एकादशाङ्गसूत्रार्थधारकान् एकादश च तान्यङ्गानि च एकादशाङ्गानि एकादशाझानां सूत्राी एकादशाङ्गसूत्राथौं तौ धारयन्ति ये तान् एकादशाङ्गसूत्रार्थधारकान् । 'सर्वसाधूंच' इति सर्व साधयन्तीति सर्वसाधवः अथवा सर्वे च ते साधवश्च सर्वसाधवः तान् सर्वसाधूश्च वन्दित्वा, चशब्दः समुच्चये, अथवाऽनुक्तसमुच्चये, यच्च | समुच्चितं तत्प्रतिपादयिष्यामः । पदविग्रहस्तु यानि समासभाजि पदानि तेषां प्रतिपादितः । अधुना चालनाया अवसरः सा प्रतिपाद्यते, एवं व्याख्याते सत्याह पर:-सर्वमेवेदं गाथासूत्र न घटते, कथम् , इह 'ओपनियुक्तिं वक्ष्ये' इति प्रतिज्ञा, |सा च प्रथममेव नमस्कारसूत्रे न संपादिता, यदुत नमस्कारोऽपि संक्षेपेणैवाभिधातव्यः, न चासौ संक्षेपेण प्रतिपादितः, अपि वहन्नमस्कार एव केवलः संक्षेपनमस्कारो भवति, स एव कर्तव्यो, न चतुर्दशपूर्वधरादिनमस्कारः, अथ क्रियते, एवं 18/ तर्हि एकैकस्या व्यक्तेनमस्कारः कर्तव्यः, किं दशपूर्व्यादिनमस्कारेणेति, चतुर्दशपूर्विनमस्कारेणैव शेषाणां नमस्कारो भविष्यतीति, अथ भेदेन क्रियते एवं तर्हि त्रयोदशपूर्वधरादीनामेकैकपूर्वहान्या तावत्कर्तव्यो यावत्पूबैंकदेशधराणामिति, अत्रोच्यते, यदित्थं चोचं क्रियते तदविज्ञायैव परमार्थं, कथम् ?, यदुक्तं तावत् संक्षेपग्रन्थोऽयं तदत्र नमस्कारोऽपि संक्षेपेण|8 कर्तव्य इति, अत्र तावत्प्रतिविधीयते-येनैव संक्षेपग्रन्थोऽयं तेनैव लक्षणेनेत्थं नमस्कारः कृतः, तथाहि-सामान्येनाहता नमस्कारोऽभिहितःन विशेषेण एकैकस्य तीर्थकरस्य, तथा भगवतामुपकारित्वान्नमस्कारः क्रियते, येऽप्यमी चतुर्दशपूर्व-1 दीप अनुक्रम ACACAX SAREaratRana
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy