________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१११२] → “नियुक्ति: [७५८] + भाष्यं [३२२...] + प्रक्षेपं [३०...]" मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-[२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||७५८||
इति । किश-रक्ता' आहारार्थ सिंहादिः, 'विष्टः' सर्पादिः, 'मूढः' वैदिकादिः, स एवंविधो रक्तो वा द्विष्टो वा| मूढो वा ये 'प्रयोग' कायादिक प्रयुक्ने तत्र हिंसाऽपि जायते, अपिशब्दावनृतादि चोपजायते, अथवा हिंसाऽप्येवं रक्तादिभावेनोपजायते न तु हिंसामात्रेणेति वक्ष्यति, तस्मात्स हिंसको भवति यो रक्तादिभावयुक्त इति, न च हिंसयैव हिंसको। भवति, तथा चाहन च हिंसामात्रेण सावधेनापि हिंसको भवति, कुतः, शुद्धस्य पुरुषस्य कर्मसंप्राप्तिरफला भणिता जिनवरैरिति । किञ्च|जा जयमाणस्स भये घिराहणा सुत्तविहिसमग्गस्स । सा होइ निजरफला अज्झस्थविसोहिजत्तस्स ।।७५९॥ परमरहस्समिसीणं समत्तगणिपिंडगझरितसाराणं । परिणामियं पमाणं निच्छयमवलंबमाणाणं ॥७६०॥ निच्छयमवलंयंता निच्छयओ निच्छयं अयाणंता । नासंति चरणकरणं वाहिरकरणालसा केइ ॥ ७६१॥
या विराधना यतमानस्य भवेत् , किंविशिष्टस्य सतः १-सूत्रविधिना समप्रस्य-युक्तस्य गीतार्थस्येत्यर्थः, तस्यैवं विधस्य या भवति विराधना सा निर्जराफला भवति, एतदुक्तं भवति-एकस्मिन् समये बद्धं कर्मान्यस्मिन् समये क्षपयतीति, किंविशिष्टस्य :-'अध्यात्मविशोधियुक्तस्य' विशुद्धभावस्थेत्यर्थः । किच,-परम-प्रधानमिदं रहस्य-तत्त्वं, केषाम् ?-'ऋषीणां' सुविहितानां, किंविशिष्टानां -समर्म च तद् गणिपिटगं च समप्रगणिपिटकं तस्य क्षरितः-पतितः सार:-प्राधान्यं यैस्ते समग्रगणिपिटकक्षरितसारास्सेषामिदं रहस्य, यदुत 'पारिणामिकं प्रमाणं' परिणामे भवं पारिणामिकं, शुद्धोऽशुद्धश्च चित्तपरिणाम इत्यर्थः, किंविशिष्टानां सतां पारिणामिकं प्रमाणं ?-निश्चयनयमवलम्बमानानां, यतः शन्दादिनिश्चयनयानामिद
दीप अनुक्रम [१११२]
SCSSRess
iralauneurary.orm
~446~