________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||३६३||
दीप
अनुक्रम
[ ९२९]
श्री ओघ
निर्युक्तिः द्रोणीया वृत्तिः
॥ १९३॥
“ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) “निर्युक्तिः [ ५९५ ] + भाष्यं [ ३०६ ] + प्रक्षेपं [२७...]" आगमसूत्र - [४१/१], मूल सूत्र - २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
८०
मूलं [ ९२९] • → मुनि दीपरत्नसागरेण संकलित
एगंतमणावाए अचिते थंडिले गुरुवइट्टे । आलोए एगपुंजं तिद्वाणं सावणं कुजा ।। ५९५ ॥ लोभातिरेगगहि अं अहब असुडं तु उत्तरगुणेहिं । एसावि होति जाया वोच्छं सि विहीऍ वोसिरणं ॥ ३०६ ॥ ( भा०) एगंतमणाचाए अचित्ते थंडिले गुरुवइडे । आलोए दुन्नि पुंजा तिद्वाणं सावर्ण कुजा ।। ५९६ ।।
मूलगुणैः प्राणातिपातादिभिरशुद्धं यद्गृहीतं भक्तं पानकं वा साधुभिरियं जाताऽभिधीयते, वक्ष्ये 'अस्याः' जाताया विधिना 'व्युत्सर्जनं' परित्यागं । सा च जाता एवंविधे स्थण्डिले परिष्ठापनीया - एकान्ते 'अनापाते' लोकापातरहिते अचित्ते स्थण्डिले गुरूपदिष्टे “अणावायमसंलोए” इत्येवमादिके 'आलोगे' समे भूभागे न गर्त्तादौ यत्र प्राघूर्णकादयः सुखेन पश्यन्ति, तत्र च तस्य भक्तस्य एकः 'पुंज:' राशिः क्रियते, पुनश्च 'त्रिस्थानं' तिस्रो वाराः श्रावणं करोति-व्युत्सृष्टं व्युत्सृष्टं व्युत्सृष्टमिति, तच्च त्रिस्थानं श्रावणं करोति त्रिविधेन मनसा वाचा कायेन व्युत्सृष्टमित्यस्य ज्ञापनार्थमिति । यत्पुनः साधुना लोभातिरेकेण गुडादिद्रव्यं मूर्च्छया गृहीतं अथवा यदशुद्धमुत्तरगुणैः-आधाकर्मादिभिः, इयमपि भिक्षा जातेत्युच्यते वक्ष्ये अस्या विधिना व्युत्सर्जनं परित्यागम् । पूर्वार्द्ध सुगमं, केवलमत्र द्वौ पुझौ क्रियेते- द्वौ राशीक्रियेते आलोके साधूनाम् । इदानीम् " अभिओगे"त्ति व्याख्यानयन्नाह -
दुविहो खलु अभिओगो दवे भावे य होइ नायो । दबंमि होइ जोगो विज्जा मंता य भाव॑मि ॥ ५९७ ॥ द्विविधोऽभियोगो-द्रव्याभियोगो भावाभियोगश्च ज्ञातव्यः, तत्र द्रव्याभियोगो द्रव्यसंयोगजचूर्णस्तन्मिश्रः पिण्डोऽभियोगपिण्डः, स च परित्यजनीयः, भावाभियोगश्च विद्यया मन्त्रेणाभिमन्त्रय पिण्डं ददाति स तादृशौ भावाभियोगपिण्डः,
For Parks Use Only
~389~
जातापारिष्ठापनिका
नि. ५९४५९७ भा. ३०४-३०६
॥१९३॥