________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [९०३] .→ "नियुक्ति: [५८२] + भाष्यं [२९४] + प्रक्षेपं [२७...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५८२||
शरीरपरिकानन्तरं सर्वाहारं मुञ्चतीति ॥ इदानीं भाष्यकार एव एतानि षट् स्थानानि प्रदर्शयन्नाह-'आतङ्क:' ज्वरादिर्वक्ष्यते, तथा 'उपसर्गः' राजादिजनितः, एतेषां 'तितिक्षार्धे' सहनार्थ न भोक्तव्यं, तथा ब्रह्मचर्यगुप्त्यर्थं च न भोक्तव्यं, तथा तपोऽर्थ शरीरव्यवच्छेदार्थ च न भोक्तव्यमिति । इदानी भाष्यकारः प्रतिपदं व्याख्यानयति, तत्राद्यावयवव्याचिख्या-1 सयाऽऽह-आतङ्को-ज्वरादिः, आदिग्रहणादन्यो व्याधिर्यत्र भोजनं न पथ्यं तदर्थं न भुङ्क्ते । दारं । राज्ञा राजकुलधारणादिरूपो यद्युपसर्गः कृतः, सणायगो वा-स्वजनः यदि उन्निष्क्रमणार्थमुपसर्ग करोति ततो न भुते । दारं । ब्रह्मव्रतपाल-18 नार्थ न भुले, यतो बुभुक्षितस्योन्मादो न भवति । दारं । तथा प्राणदयार्थं न भुले, यदि धर्षति महिका वा निपतति । मादारं ॥ तपोऽर्थ न भुले, तच चतुर्थादि यावत्षण्मासास्तावत्सपो भवति तदर्थं न भुले । दारं । पाठ शरीरस्य व्यवच्छे-12
दार्थमनाहारः साधुर्भवतीति ॥ एभिः पूर्वोक्तः पद्भिः स्थानैरनाहारो यो भवति स धर्म नातिकामति भिक्षुरतो ध्यानयोगरतेन भवितव्यमिति । अथेदमुक्तं षड्भिः कारणैराहार आहारयितव्यः षद्भिश्च कारणैर्नाहारयितव्यस्ततः किमेतदोजनमपवादपदं ?, उच्यते !, अपवादपदमेवैतद्, यतः
झुंजतो आहारं गुणोवयारं सरीरसाहारं । विहिणा जहोवइट संजमजोगाण वणवा ॥ ५८३ ॥ भुञ्जन्नाहारं, किंविशिष्ट ?-गुणोपकारं' ज्ञानदर्शनचारित्रगुणानामुपकारक, तथा शरीरस्य साधारकमाहारं भुञ्जन्8 विधिना-ग्रासैषणाविशुद्ध 'यथोपदिष्टम्' आधाकर्मादिरहितं 'संयमयोगाना' संयमब्यापाराणां वहनार्थ भुञ्जन्नपवाद
दीप अनुक्रम [९०३]
~382~