________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [१७] → “नियुक्ति: [२...] + भाष्यं [१२] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्तिः
प्रत
गाथांक नि/भा/प्र ||१२||
शब्दाग्छिवचन्द्रादिग्रहः, 'अणुकम'त्ति अनुक्रमादिति अनुक्रमेणैव-परिपाट्या, तृतीयार्थे पञ्चमी, 'कारकाणि' कुर्वन्तीति कारकाणि-उदाहरणान्युच्यन्ते, चत्वारीति यथासंख्येनैवेति ॥ 'अनुग्रहार्थं सुविहितानाम्' इति यदुक्तं तद्व्याख्यानायो-13 दाहरणगाथावालाईणणुकंपा संखडिकरणमि होअगारीणं । ओमे य चीयभत्तं रण्णा दिन्नं जणवयस्स ॥ १३ ॥ (भा०)
एवं मित्युपन्यासाद्यथेति गम्यते, ततोऽयमों भवति-यथा ह्यगारिणामनुकम्पा भवति बालादीनामुपरि संख६ डिकरणे, एवं स्थविरैः साधूनामनुकम्पार्थमुपदिष्टौघनियुक्तिरिति संवन्धः । अधुनाऽक्षरगमनिका बालाः शिशवोऽभिधी
यन्ते, ते आदिर्येषाम् । आदिशब्दात्कर्मकरादिपरिग्रहः, तेषां बालादीनामुपर्यनुकम्पा दयेत्यर्थः, 'संखडिकरणे' संखड्यन्ते | प्राणिनो यस्यां सा संखडिः, अनेकसत्त्वब्यापत्तिहेतुरित्यर्थः, कृतिः करणं संखड्याः करणं संखडिकरणं तस्मिन् संखडिकरणे यथाऽनुकम्पा भवति, केषाम् ? इत्याह-'अगारिणां' अगारं विद्यते येषां तेऽगारिणस्तेषामगारिणां, तथाहि-योजनं प्रहर
बयोद्देशे भवति तस्मिन् यदि पालादीनां प्रथमालिका न दीयते ततोऽतिबुभुक्षाकान्तानां केषाश्चिन्मूर्छागमनं भवति काकेचित्पुनः कमोदि कर्तुं न शक्नुवन्ति ततोऽनुकम्पार्धं प्रथमालिकाद्यसौ गृहपतिः प्रयच्छति, अस्यैव दर्शनार्थ दृष्टान्तान्तहरमाह-'ओम' इत्यादि, अवर्म-दुर्भिक्षं तस्मिन्नवमे बीजानि-शाल्यादीनि भक्तम्-अन्नं बीजानि च भक्तं च बीजभक्तमेमकवद्भावः 'राज्ञा' नरपतिना दत्तं, कस्य तदाह-जनपदस्य ॥.. ISI कस्यचिद्राज्ञो विषये दुर्भिक्षं प्रभूतवार्षिक संजातं, ततस्तेन दुर्भिक्षेण सर्वमेव धान्य क्षयं नीत, लोकश्च विषण्णः, तस्मिन्न
दीप अनुक्रम [१७]]
REairat
na
murary.au
~ 24~