________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१४] .→ "नियुक्ति: [२...] + भाष्यं [९] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||९||
--
एवं चिन्तायां सत्यां सुबुख्यभिधानेन मन्त्रिणाऽभिहिता-देव ! मा चिन्तां कुरु, भवदीय एव प्रधान आकरो, न शेषा[8 आकरा इति, कुत एतदवसीयते ?, यदि भवत्संबन्धी लोहाकरो भवति तदानीं शेषाकरप्रवृत्तिः, इतरथा लोहोपकरणामावान्न प्रवृत्तिरिति, ततोऽनिर्वाह कारयतु कतिचिद्दिनानि यावदुषक्षयं प्रतिपद्यते तेषूपकरणजातं, ततः सुमहार्घमपि ते लोह ग्रहीष्यन्तीत्यत आह-'पडिसेह' इत्यादि, प्रतिषेधो-धारणा तं प्रतिषेधं करोत्यसौ लोहं प्रतीतमेव तस्य लोहस्य, तुशब्दो| विशेषणे, न केवलमनिर्वाहं करोत्यपूर्वोत्पादनिरोधं च, ततश्चैवं कृते शेषाकरेषूपस्कराः क्षयं प्रतिपन्नाः, ततस्ते वज्रादिभिग्रहणं कुर्वन्ति इतरे वज्राकरिकादयः, चशब्दान्न केवलं वज्रादिभिर्हस्त्यादिभिश्च, अत्र कथानकं स्पष्टत्वान्न लिखितम् | अयं दृष्टान्तः, साम्प्रतं दार्शन्तिकयोजना क्रियते यथाऽसौ लोहाकर आधारभूतः शेषाकराणां, तत्प्रवृत्ती शेषाणामपि प्रवृत्तेः, एवमत्रापि चरणकरणानुयोगे सति शेषानुयोगसद्भावः, तथाहि-चरणे व्यवस्थितः शेषानुयोगग्रहणे समर्थो भवति, नान्यथेति ॥ अस्यार्थस्य प्रतिपादनार्थं गाथासूत्रमाहएवं चरणमि ठिओ कर गहणं विही इयरेसिं । एएण कारणेणं हवइ उ चरणं महहीअं ॥१०॥ (भा०) __'एवं'मित्युपनयग्रन्थः 'चरणमिति चर्यत इति चरणं तस्मिन् व्यवस्थितः करोति विधिना ग्रहणमितरेषाम् , इतरेषामिति | द्रव्यानुयोगादीनां, तदनेन कारणेन भवति चरणं महर्द्धिकम् । तुशब्दादन्येषां च गुणानां सभों भवतीति ॥ अधुना 'अल्पाक्षरां महार्था मिति यदुक्तं तद्व्याख्यानायाह
दीप अनुक्रम [१४]
RELIEatur
~ 22 ~