________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४०१] .. "नियुक्ति: [२३९] + भाष्यं [१३९] + प्रक्षेपं [२२...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||१३९||
एवं तयोर्दम्पत्योः प्रीतिवृद्धिः संजाता, विपरीतश्चान्येन प्रकारेण भवति दृष्टान्तः । एवं तावद्यदि गृहस्था अपि सनयपरा भवन्ति-अनागतमेव चिन्तयन्ति, साधुना पुनः कुक्षिशम्बलेन सुतरामनागतमेव चिन्तनीय, यदि परं लोकोत्तरेऽयं है। विशेषः, यदुत निःसञ्चयाः सुतरां चिन्तामाचार्या वहन्तीति । “पुच्छा दिद्रुतगारी'त्ति भणिअं, इदानीं "पुच्छा गिहिणो चिंत"त्ति गाथायाः प्रथमावयव व्याख्यानयन्नाह| जणलावो परगामे हिंडिन्ताऽऽणति वसह इह गामे । दिनह बालाईणं कारणजाए य सुलभं तु ॥१४०॥(भा०) | यच्चोदकेन पृष्टमासीत्तत्रेदमुत्तरं-जनानामालापोजनालापो-लोक एवं ब्रवीति, यदुत परग्रामे हिण्डयित्वाऽऽनयन्ति-अत्र | भुञ्जते । 'वसहि इह गामे'त्ति वसतिः केवलमन्त्र एतेषां साधूनां, ततश्च 'देजई' बालादीनां ददध्वम् , आदिशब्दात्माघूर्ण| कादयो गृह्यन्ते, एवंविधां चिन्तां गृहस्थः करोति । ततश्च 'कारणजाते य सुलभ तु'त्ति एवंविधायां चिन्तायां प्राघूर्णकादिकारणे उत्पन्ने घृतादि सुलभं भवतीति । आह-किं पुनः कारणं प्राघूर्णकानां दीयते ?, तथा चायमपरो गुणःपाहुणविसेसदाणे निजर कित्ती अ इहर विवरीयं । पुवं चमढणसिग्गा न देंति संतंपि कज्जेसु ॥१४१॥ (भा०) | प्राघूर्णकाय विशेषदाने सति निर्जरा कर्मक्षयो भवति, इहलोके च कीर्तिश्च भवति । इहर विवरीय'त्ति यदि प्राघूर्णकविशेषदानं न क्रियते ततश्च निर्जराकीती न भवतः, एवं प्राघूर्णकविशेषदानं न भवति, यस्मात्पूर्व चमढणसिग्गा ततश्च न देति संतपि कज्जेसु गिहिणो । चिंतत्ति वक्खाणिअं, इदानी कुन्जबदरीदृष्टान्तं व्याख्यानयन्नाहगामभासे बयरी नीसंदकडष्फला य खुजा य । पक्कामालसडिंभा घायंति घरे घया दूरं ॥ १४२ ॥ (भा०)
दीप अनुक्रम [४०१]
~ 202~