________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||५||
दीप
अनुक्रम
[१०]
श्रीओघ
निर्युक्तिः द्रोणीया वृत्तिः
॥ ८ ॥
“ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः)
मूलं [१०]
●→
“निर्युक्तिः [२...] + भाष्यं [५] + प्रक्षेपं [ ३...]"
८०
मुनि दीपरत्नसागरेण संकलित
आगमसूत्र - [४१/१], मूल सूत्र -[२/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
धर्मगणितानुयोगौ तु एकयैव विभक्त्या, पुनर्द्रव्यानुयोगो भिन्नया विभक्त्येति, तथाऽनुयोगशब्दश्चैक एवोपन्यसनीयः, किमर्थ द्रव्यानुयोग इति भेदेनोपन्यस्त इति ?, अत्रोच्यते, यत्तावदुक्तं चतुर्ग्रहणं न कर्तव्यं, विशिष्टपदोपन्यासात्, तदसत् यतो न विशिष्टसङ्ख्यावगमो भवति विशिष्टपदोपन्यासेऽपि कुतः ?, चरणधर्मगणितद्रव्यपदानि सन्ति, अन्यान्यपि सन्तीति संशयो मा भूत्कस्यचिदित्यतश्चतुर्ग्रहणं क्रियत इति, तथा यच्चोक्तं भिन्नया विभक्त्या चरणपदं केन कारणेनोपन्यस्तम् ?, तत्रैतत्प्रयोजनं, चरणकरणानुयोग एवात्राधिकृतः, प्राधान्यख्यापनार्थे भिन्नया विभक्त्या उपन्यास इति, तथा धर्मगणितानुयोगी एकविभक्त्योपन्यस्ती, अत्र तु क्रमेऽप्रधानावेताविति, तथा द्रव्यानुयोगे भिन्नविभक्त्युपन्यासे प्रयोजनं, अयं हि एकैकानुयोगे मीलनीयः, न पुनलौकिकशास्त्रवद्युक्तिभिर्न विचारणीय इति, तथाऽनुयोगशब्दद्वयोपन्यासे प्रयोजनमुच्यते यत्त्रयाणां पदानामन्तेऽनुयोगपदमुपन्यस्तं तदपृथक्त्वानुयोगप्रतिपादनार्थ, यच्च द्रव्यानुयोग इति तत्पृथक्त्वानुयोगप्रतिपादनार्थमिति । एवं व्याख्याते सत्याह परः - इह गाथासूत्रपर्यन्त इदमुक्तं- 'यथाक्रमं ते महर्द्धिका' इति, एवं तर्हि चरणकरणानुयोगस्य लघुत्वं, तत्किमर्थं तस्य निर्युक्तिः क्रियते ?, अपि तु द्रव्यानुयोगस्य युज्यते कर्तु सर्वेषामेव प्रधानत्वात् एवं चोदकेनाक्षेपे कृते सत्युच्यते
| सविसयवलवत्तं पुण जुज्जइ तहविअ महिद्विअं चरणं । चारित्तरक्खणट्ठा जेणिअरे तिन्नि अणुओगा ॥ ६ ॥ (भा०) स्वश्वासौ विषयश्च स्वविषयस्तस्मिन् स्वविषये बलवत्त्वं पुनर्युज्यते-घटते, एतदुक्तं भवति - आत्मीयात्मीयविषये सर्व एव बलवन्तो वर्तन्त इति, एवं व्याख्याते सत्यपरस्त्वाह-यद्येवं सर्वेषामेव नियुक्तिकरणं प्राप्तं, आत्मीयात्मीयविषये सर्वेषामेव
For Parts Only
~ 19~
चरणानुयो गमहत्ता भा. ५-१०
॥ ८ ॥